________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लखितः प्राह - "अथ चोलपट्टपरिधापनेन किं ?, यद् द्रष्टव्यं तद् दृष्टं" इति । गुरुभिः प्रोक्तं- "चोलपहः तिष्ठतु ।” तथा भिक्षार्थं न याति लब्बा बहीं । ततो गुरुभिः साधूनां प्रोक्तं- "भवद्भिः न आनीय देया, स्वयं यास्यति ।" इत्युक्त्वा गुरवोऽन्यत्र विहृताः । साधुभिः आनीय स्वयं आहारः कृतः, तस्मै न दत्तः । स च क्षुधित एव तस्थौ । द्वितीयदिने गुरव आगताः, “किं न वृद्धस्य आहारो दत्तः ?" इति कृत्रिमः कोपः कृतः । साधुभिः प्रोक्तं- "स्वयं कथं न याति ? ।” ततो गुरवः स्वयं तदर्थं परिताः, ततोऽविनयं ज्ञात्वा खयमेव तत्र गतः कस्यापि इभ्यस्य गृहे, परं अज्ञानात् अपद्वारेण गच्छन् गृहखामिना प्रोक्तं- “भो ! मुख्यद्वारेण एहि ।” स उचे- “भो ! लक्ष्मी यन्त्र तन्त्र आयान्ती भव्या, को विचारः ? " तत्र द्वात्रिंशन्मोदकान् भिक्षया लब्ध्वा आगतः, गुरुभिः विचारितं - " द्वात्रिंशत् शिष्या अस्माकं भविष्यन्ति, प्रथमलाभत्वात् ते मोदकाः साधूनां दत्ताः । पुनः गत्वा परमान्नं आनीय स्वयं बुभुजे । लब्धिसंपन्नत्वात् गच्छाधारश्च जज्ञे । तस्य गच्छे त्रयः साधवः पुष्पमित्रा लब्धिसंपन्नाः- दुर्बलिकापुष्पमित्र १ घृतपुष्पमित्र २ वस्त्रपुष्पमित्राः ३ चत्वारश्च महाप्रज्ञा:-दुर्बलिकापुष्पमित्रः १ वन्ध्यः २ फल्गुरक्षितः ३ गोष्ठामाहिलाः ४ अन्यदा इन्द्रेण श्रीसीमन्धरखामिवचसा कालिकाचार्यवत् निगोदसुक्ष्मविचारपृच्छ्या परीक्षिताः, वन्दित्वा स्तुतिं कृत्वा शालाद्वारं परावृत्य गत इन्द्रः स्वस्थानं । ततः श्री आर्यरक्षितसूरिभिः बुद्धिहानिं ज्ञात्वा अनुयोगञ्चतुर्धाऽपि पृथक पृथक व्यवस्थापितः । एवंविधा: श्री आर्यरक्षितसूरयः स्थविरा जाताः । एवं विद्याधरगच्छीयाँ वृद्धवादि-सिद्धसेनी, तयोः सम्ब
For Private and Personal Use Only