________________
Shri Mahavir Jain Aradhana Kendra
xxxx>
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आकाशे स्थित्वा उवाच - "भो ! यथा युष्माभिर्दधारहिनैः निरपराधी अहं हन्ये, तथा अहं चेत् निर्दयः स्यां तदा सर्वान् युष्मान् हन्मि । पुनः हनुमता राक्षसाणां कुले यत् कृतं तत् भवतां अप्यहं करोमि, परं यदि कृपा अन्तरायकारिणी न भवेत् ।” पुनः प्रोक्तं- “पशुदेहे यावन्ति रोमकूपाणि सन्ति तत्पशुमारणे रोमकूपतुल्यानि वर्षसहस्राणि यावत् नरके पशुघातकाः पच्यन्ते । पुनरपि यो दाता स्वर्णमेरुं विभज्य याचकानां दत्ते । पुनः यः पृथिवीं समस्तां दत्ते, एतहानद्वयपुण्यात् अपि एक जीवं मार्यमाणं रक्षेत् तत्पुण्यं अधिकं । पुनरपि दक्षिणासहिता यागाः एकत, एकतस्तु भयभीतस्य प्राणिनो रक्षणं तदधिकं । पुनः दानानां महतामपि कालेन फलं क्षीयते, परं अभयदानस्य क्षय एव नास्ति ।" तदा यज्ञकारकैः प्रोक्तं- "कस्त्वं आत्मानं प्रकाशय ।" तेनोक्तं- "अनिदेवोऽहं मम चेदं वाहनं छागरूपं कथं होतुमारब्धं ? ।" तैः प्रोक्तं-" घर्मार्थ ।” देवेन प्रोक्तं- "पशुवधे महापापं ।" अत्रायें प्रियग्रन्थसूरयः प्रष्टव्याः । ततः तैः सूरयः पृष्टाः जीवदयारूपं शुचिधर्म प्राहुः । ततस्ते याज्ञिकाचा चहयो लोकाः प्रतिबुद्धाः । जाता जैनधर्ममहिमा । प्रियग्रन्थसूरितो मध्यमा शाखा निर्गता १ विज्जाहरगोवालेहिंतो विज्जाहरी शाखा निर्गता २ एवं शाखाश्चतुस्त्रिंशत् ३४ | इन्द्रदिनस्य शिष्यो दिन्नो जातः । स्थविरा: सप्तचत्वारिंशत् ४७, आर्यदिन्नस्य द्वौ शिष्यो- अज्जसंतिसेणिए १ अज्जसी हगिरी च २ स्थविरा एकोनपञ्चाशत् ४९ । अजसंतिसेणित उच्चानागरी-शाखाः जाताः ३५ एवं शाखाः पश्चत्रिंशत् ३५ । पुनः आर्यशान्ति सैनिकसूरेः चत्वारः शिष्या जाता:-अनसेणिए १ अज्जतावसे २ अज्जकुबेरे ३
For Private and Personal Use Only