________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
29**** X
कल्पसूत्रं कल्पलता
अजइसिपालिए ४ एवं स्थविरा: त्रिपञ्चाशत् ५३ | आर्यसैनिकसूरित:-अज्जसेणिया-शाखाः निर्गताः १ अज्जताबस सूरितोऽज्जतावसी - शाखाः निर्गताः २ अजकुवेरसूरितोऽलकुबेरी - शाखाः निर्गताः ३, अज्जइसिपालिसूरिव्या० ८ तोऽनइसिपालिया-शाखाः निर्गताः ४ एवं शाखा एकोनचत्वारिंशत् ३९ । सीह गिरिसूरेः समुत्पन्नजातिमरणज्ञानस्य चत्वारः शिष्याः- धणगिरि १ बहरे २ समिए ३ अरिहदिन्ने ४ | एवं स्थविरा: सप्तपञ्चाशत् ५७ । आर्यसमित सूरितः भदीविया - शाखाः निर्गताः १ वरखामितो बहरी शाखाः निर्गताः २ एवं शाखा एकचत्वारिंशत् ४१ बंभदीवियाशाखाया उत्पत्तिः यथा
॥ २३४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
आभीरदेशे अचलपुरासन्ने कन्न-वेन्नानद्योः मध्ये ब्रह्मद्वीपोऽभूत् । तत्र पञ्चशततापसाः प्रतिवसन्ति, तेषु एकः तापसः पादलेपेन पादुकस्थेन वेन्नानदीं उत्तीर्य पारणाय याति । लोकाः तपस इयं शक्तिः इति ज्ञात्वा तापसभक्ता जाताः, श्राद्धान् प्रतिनिन्दन्ति " यत् भवतां गुरुषु न कोऽपि प्रभावः" इति । ततः श्रावकैः श्रीवज्रखामिमातुलाः श्री आर्यसमितसूरयः आकारिताः । तैः प्रोक्तं - " स्तोकमिदं पादलेपशक्तिरियं, न तपसः शक्तिरिति । ततो गुरूपदेशात् श्रावकैः स तपस्वी भोजनार्थं गृहे निमध्य पादपादुकाधावन पूर्व भोजितः सत्कृतश्च । ततः तेन समं श्रावका नदीतटे गताः । स प्रविष्टमात्र एव लेपाऽभावात् वृडितुं लग्नो, जाता अपभ्राजना । ततः श्री आर्यसमित सूरयः तत्र समागता लोकबोधनार्थं चप्पटिकां दत्त्वा माहुः - "बेन्ने ! परं पारं यास्यामः" इत्युक्ते मिलितं कूलद्वयं लोका विस्मयं प्राप्ताः । ततः सूरयः पौरलोकसहिता एव गताः
For Private and Personal Use Only
बंभदीवि
याशाखाया उत्पत्तिः
॥ २३४ ॥