________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- XKX
*श्रीस्थूलभद्रो वीरात् पञ्चदशाधिकद्विशतवर्षेः [२१५] स्वर्ग गतः । तथा जम्बूस्वामी चरमकेवली १ प्रभव
खामि १ शय्यम्भवसूरि २ यशोभद्रसूरि ३ संभूतिविजय ४ भद्रबाहु ५ स्थूलभद्राः ६ एते षडपि श्रुतकेवलिनः । श्रीस्थूलभद्रस्य द्वौ शिष्यो-आर्यमहागिरिः एलापत्यगोत्रीयः १ द्वितीयः आर्यसुहस्ती वाशिष्ठगोत्रीयः २ । तत्र आर्यमहागिरिणा व्यवच्छिन्नेऽपि जिनकल्पे जिनकल्पतुलना कृता । पुनः यस्य आर्यमहागिरेः गोचर्या भ्रमतः संस्तवनश्रेछिगृहे स्थितः, तत्पट्टे श्रीआर्यसुहस्तिसूरिः कृतवान् ८॥
अथ श्रीआर्यसुहस्तिसूरिसंबन्धो यथा
अन्यदा दुःकाले जाते धान्यं न लभ्यते, लोको दुःखी जातः, राजानोऽपि रङ्का जाताः । तथापि श्रावकाः साधूनां विशेषतः दानं ददुः । एको भिक्षुः साधून बहुभिक्षा प्रतिगृहं लभमानां दृष्ट्वा प्राह-“भो ! मह्यं भिक्षा दत्त।" साधुभिः प्रोक्तं-"गुरवो जानन्ति ।" ततो गुरुसमीपे समागतः । गुरुभिः लाभं विभाव्य दीक्षां दत्त्वा यथेच्छ भोजितः । परं विषूचिकया चारित्रानुमोदनात् मृत्वा उज्जयिनीनगरे श्रेणिकराजपट्टे कोणिकः २ तत्प? उदायिराजा ३ तत्पद्दे नवनन्दाः १२ तत्पट्टे चन्द्रगुप्तः १३ तत्प? बिन्दुसारः १४ तत्पद्दे अशोकश्रीः१५ तस्य पुत्रः कुणाल: १६ तस्य पुत्रः संप्रतिनामा राजा अभूत् । तस्य हि जातमात्रस्यैव पितामहराज्यं मत्रिभिः दत्तं । अनुक्रमेण त्रिखण्डभोक्ता जातः। एकदा रथयात्रार्थ आगतं श्रीआर्यसुहस्तिसूरि दृष्ट्वा जातिस्मरणं ज्ञानं उत्पन्नं । तत आगत्य गुरूणां पृष्टं-“हे स्वामिन् ! अव्यक्तसामायिकस्य किं फलं?"
KOKE KA-KOKUXUKIKOK
For Private and Personal Use Only