SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्रं कल्पलता व्या० ८ ॥ २२३ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्थूलभद्रभगिन्यो बान्धववन्दनार्थं समागताः । गुरुं वन्दित्वा ताः प्रोचुः - "क स्थूलभद्रः ? ।” गुरुणा प्रोक्तं“गिरिगुहायां पूर्वाणि गुणयन् अस्ति ।” ततो गतास्तत्र ता आयन्तीः ज्ञात्वा ज्ञानबलेन स्थूलभद्रः चमत्कारदर्शनाय सिंहरूपं पुच्छाच्छोटं कृत्वा स्थितः । ताः सिंहं दृष्ट्वा भीता गुरुपार्श्वे गताः प्रोचुः- "तत्र अस्माकं भ्राता नास्ति, सिंहः स्थितोऽस्ति ।" तदा गुरुभिः ज्ञातं - "विद्याबलं प्रयुक्तं" । पुनः प्रोक्तं- "पुनः यात, भ्राता तत्रैवाऽस्ति ।" पुनः ताः तत्र गताः, भ्रातरं दृष्ट्वा हर्षेण वन्दन्ते स्म । पुनः यक्षा साध्वी स्वकीयकथां स्वभ्रातृस्थूलभद्राग्रे कथयति स्म । तथाहि - अस्माभिः सह [ श्रीयकः ] प्रत्रजितोऽभूत् । श्रीपर्युषणापर्वणि मया उपवासं कारितः स्वर्गं गतः । ततोऽहं तत्प्रायश्चित्तयाचनाय श्रीस कायोत्सर्गे स्थिते शासनदेच्या आगत्य | सीमन्धरखामिसमीपे नीता । तन्मुखात् चूलाद्वयं लात्वा अत्राऽऽगता । ततः ताः गुरून् वन्दित्वा स्वस्थाने गताः । अन्यदा श्रीस्थूलभद्रः पूर्वमित्रब्राह्मणगृहे गतोऽभूत् । पृष्टं - "क मे मित्रं ?" । भार्यया प्रोक्तं- "दरिद्रत्वेन भिक्षार्थं जगाम ।" स्थूलभद्रेण ज्ञानेन ज्ञातं - "अहो ! अस्य गृहस्य अमुकस्थाने निधानं वर्तते, परं न जानाति ।" ततो निधानस्थानं दर्शयित्वा दृशा निर्गतः । मित्रेण आगत्य भार्यावचनेन तत् स्थानं खनितं, महानिधानं प्रकटितं स ब्राह्मणः सुखी जातः । ततः सिंहविकुर्वणं निधानदर्शनं च अपराधं ज्ञात्वा वाचनाग्रहणाय आगतस्य स्थूलभद्रस्य प्रोक्तं- " त्वं अयोग्योऽसि, न अतः परं वाचनादानं ।” तथापि श्रीसङ्घाग्रहेण " अन्यस्मै त्वया न देया" इति शपथं कारयित्वा अग्रतः सूत्रतो वाचना दत्ता, परं न अर्थतः । एवंविधः For Private and Personal Use Only स्थूलभद्रसम्बन्धः ।। २२३ ।।
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy