________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
Ko-KOKeXX
अङ्गमोञ्छनं कृत्वा तत्पतिबोधार्थ खालमध्ये प्रक्षिप्तं । साधुः आह-"अहो! त्वया अज्ञानेन किं कृतं? मया कष्टेण आनीतं अमूल्यं रत्नकम्बलं खालमध्ये क्षिप्त! ।” कोशा प्राह-रे मूर्ख ! स्वया किं कृतं? चारित्रं दुर्लभं उभयलोकसाधकं रत्नकम्बलादपि अनन्तमूल्यं, मम अङ्गेषु मलाविलेषु अशुचिषु निक्षिप्तं । ततः प्रतिबुद्धो, गुरुसमीपे आगत्य मिथ्या दुष्कृतं ददे । एवं स्वकामिनं रथकारं पुडपुडार्पितः बाणैः दूरस्थानलम्ब्या|ऽऽनयनकलागर्वितं सर्षपराशिस्थसूच्यग्रपुष्पोपरि नृत्यन्ती पाह
"न दुकरं अंबयलंबितोडणं, न दुकरं सरिसवनच्चिआए ।
तं दुकरं तं च महाणुभावो, जं सो मुणी पमयवर्णमि बुच्छो॥१॥” ततो रथकारो व्रतं जगृहे । अन्यदा द्वादश १२ वर्षदुर्भिक्षप्रान्ते पाटलीपुरै नगरे अगुणनादिना विस्मृतां एकादशाङ्गी ज्ञात्वा सङ्घन मिलित्वा दृष्टिवादपठनाय श्रीभद्रबाहुखामिसमाहूतिकृते मुनिद्वयं मुक्तं तत्र गतं, परं, श्रीभद्रवाहुस्वामी प्राह-"मया साम्प्रतं महाप्राणायामध्यानं प्रारब्धं, ततो न आगमनं भावि” इति मुनिद्वयं पश्चात् प्रहितं । पुनः सङ्घन कथापितं-"सङ्घादेशं यो न मन्यते, तस्य को दण्डः ?"
भद्रबाहुस्खामिना प्रोक्तं-"गच्छात् यहिः क्रियते, परं आगमने ध्यान भङ्गो भवति । ततः श्रीसङ्घः शिष्यान् KIअत्र प्रहिणोतु, यथा पाठयामि ।” ततः स्थूलभद्रादि ५०० शिष्याः प्रहिताः । गुरुभिः वाचनासप्तके दत्ते
अन्ये उद्भग्नाः, स्थूलभद्रस्तु दशपूर्वाणि वस्तुद्वयेन ऊनानि पपाठ । अन्यदा यक्षाद्याः सप्ताऽपि साध्व्यः
कल्प० ३८
For Private and Personal Use Only