________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अजितनाथादिवारकस्य साधवो नटनाटकं दृष्ट्वा चिरादागता गुरुणा दृष्टाः ऋजुत्वात्प्रोचुः - 'नटो नृत्यन् अस्माभिर्दृष्टः तेन बेला लग्ना ।' गुरुणा प्रोक्तम्- 'अतः परं नटनृत्यं न बिलोकनीयं रागहेतुत्वात्।' पुनरेकदा तैरेव साधुभिर्नर्तकी नृत्यन्ती दृष्टा, परं न तत्र विलोकनार्थं स्थिताः, यतः प्राज्ञत्वाद्विचारितम् -'गुरुभिर्नटनृत्यमपि निवारितम्, ततो नर्तकीनृत्यं निषिद्धमेव विशेषतः, तस्य विशेषतो रागहेतुत्वात् ।' ऋजुप्राज्ञास्ते इति ॥ १ ॥ अथ च साधवश्चतुर्मास्यां यस्मिन् क्षेत्रे तिष्ठन्ति, तस्य क्षेत्रस्य उत्कृष्टतस्त्रयोदशगुणा विलोक्यन्ते, ते चामी - चिक्खिल्ल पाण थंडिल, वसही गोरस जिणाउले विज्जे । ओसह निचयाहिवई, पाखंडी भिक्ख सज्झाए ॥ १ ॥ अर्थ:-यत्र क्षेत्रे न भूयान् कर्द्दमो भवति १, पुनर्यत्र न प्रभूताः संमूर्किछमाः प्राणा भवन्ति २, पुनर्यत्र स्थण्डिलस्थानं अनापातं असंलोकं च भवति ३, पुनर्यत्र वसतिः स्त्रीपशुपण्डकादिरहिता भवति ४, पुनर्यत्र गोरसं प्रचुरं भवति ५, पुनर्यत्र भूयान् जनो भवंति सोऽप्यतीव भद्रकः स्यात् ६, पुनर्यत्र वैद्या भद्रका भवन्ति ७, पुनर्यत्र साधूनां औषधानि मिलन्ति ८, पुनर्यत् कुटुम्बिकानां गृहाणि धनधान्यादिभिर्निचितानि ध्यापनीयः इति । सोऽपि तत्रागत्य लोकान् दृष्ट्वा चिन्तयामास । इदानीं लोकसमक्षं न वदेयम् । पित्रैव निषिद्धोऽस्मि - 'उत्तालतया न जल्पनीयम् ।' एवं ज्ञात्वा तत्रैवागत्य तूष्णीं स्थितः, घटिकामेकां स्थित्वा शनैरागत्य कर्णे उक्तम्- 'गृहे अग्निमोऽस्ति त्वमागच्छ ।' पित्रोक्तम्- 'कियती वेला लग्ना' ? तेनोकम्- 'घटिकैकाऽभूत्' । पित्रा उक्तम्- 'रे मूर्ख! इयती वेला जाता, स्वया पुरा एव कथं नोकम्' ? तेनोक्तम्- 'भवतैव | निषिद्ध:- 'लोकसमक्षम् उत्ताढतया न वक्तव्यम् ।' एतादृशा वक्रजडा जीवा भवन्ति पुनरपि बहवो वक्र - जडानां दृष्टान्ताः सन्ति ॥
For Private and Personal Use Only