________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तथैव पृष्टाः - 'किं चिरादागताः ? ते ऋजुत्वात् प्रोचु:-'नदीं नृत्यन्तीं पश्यन्तोऽय वयं स्थिताः तदा गुरुणा निर्भत्सिताः - 'भो ! यूयं जडत्वान्न जानीथ, यदि नटनाटकं साधूनां न द्रष्टव्यं तदा नर्त्तकी नाटकं तु विशेषतो निषिद्धमेव ॥ १ ॥ अथ कौङ्कणदेशीयसाधुदृष्टान्तः । तथा हि
एकः कश्चित् कौङ्कणदेशनाम्ना प्रसिद्धः कौङ्कणो वणिक पुत्रादिकुटुम्बं त्यक्त्वा, वैराग्यात् स्थविरसमीपे वृद्धत्वे दीक्षां जग्राह । एकदा स्थण्डिलादागत्य ईर्यापथिकी कायोत्सर्गे चिरं तस्थौ । गुरुणा प्रोक्तम्- 'भो कौङ्कणसाधो ! कथं प्रभूता वेला लग्ना कायोत्सर्गे ? तदा कौङ्कणसाधुः ऋजुजडत्वात्प्राह- 'हे खामिन्! मया अद्य जीवदया ध्याता ।' गुरुणा प्रोक्तम्- 'कथम् ? साधुः प्राह-'यदा वयं गृहे अवसाम तदा वर्षाकाले सर्वत्रक्षेत्रे वृक्षनिसूदनं अकारयाम, पुनर्दावं अमोचयाम, हलं अखेटयाम, निदानं असृजाम, तेन प्रभूतं धान्यं अस्माकं क्षेत्रे अभवत् । साम्प्रतं मम पुत्रादयः कृषौ न कुशला निरुद्यमाः तेन निश्चिन्ताः सन्तः तिष्ठन्ति परं तेऽपि यदि वयमिव क्षेत्रोद्यमं कुर्वन्ति तदा सुखिनो भवन्ति, अन्यथा बराकाः क्षुधया मरिष्यन्ति इति जीवदया चिन्तिता ।' ततो गुरुराह-'भो साधो ! त्वया दुश्चिन्तितम्, यतो जीवसंहारं विना क्षेत्रकार्य न स्यात्, ततो मिथ्या दुष्कृतं देहि । तेन दत्तम्, जातः शुद्धः ॥ इति द्वितीयो दृष्टान्तः ॥ २ ॥ श्रीमहावीरतीर्थङ्करवारकस्य साधवो वा जडाच, तेन एषः कल्पो दुष्पालनीयो दुर्विशोधश्च । तत्रापि स एव नटनर्तकीदृष्टान्तः । तथा हि-केचित् किल चरमजिनसाधवः नटनाटकं पश्यन्तः चिरात् आगताः, तथैव गुरुणा पृष्टाः ऊचुः - 'नटनाटकं
For Private and Personal Use Only