________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं
कल्पलता व्या० १
॥ ३ ॥
www.kobatirth.org
करोति ।' राज्ञा प्रोक्तम्- 'इदमौषधं अतिभव्यम्', ततः पुत्रस्य कारितम् । एवमेष कल्पोऽपि तृतीयोषधसदृशः यदि कर्म्म-रूपव्याधिर्भवेत् तदा तं गमयति, नवीनं कर्मव्यात्रिं आगच्छन्तं निवारयति, सौख्यं संपतिं च करोति इति । पुनरपि - आह
रिमाण दुविसोझो चरिमाणं दुरणुपालओ कप्पो । मज्झिमगाण जिणाणं सुविसोझो सुहणुपालो य ॥ उज्जडा पठमा खलु नडाइनायाओ हुन्ति नायहा । वक्कजडा पुण चरिमा उज्जुपणा मज्झिमा भणिआ ॥ प्रथमतीर्थंकरसमये साधूनां साधुधर्मो ज्ञातुमशक्यः यदा जानन्ति तदा सम्यक पालयन्ति, ऋजुजडत्वात् । चरमतीर्थंकरस्य समये साधूनां साधुधर्मो ज्ञातुं सुकरः, परं पालयितुमशक्यः, वऋजडत्वात् । अजितादितीर्थकरसाधूनां तु साधुधर्मो ज्ञातुमपि सुकरः पालयितुमपि सुकरः, ऋजुप्राज्ञत्वात् ॥ अत्र च दृष्टान्ताः
श्री आदिनाथसाधूनां ऋजुजडत्वात् दुर्विशोध्यो भवति अयं कल्पः । यथा—
केचित् आदिनाथतीर्थङ्करचारकस्य यतयः स्थण्डिले गत्वा, गुरुसमीपं चिरात् समागताः गुरुणा पृष्टा:-'किं चिरादागताः ' ? ऋजुखभावत्वात् ते प्रोचुः- 'नदं नृत्यन्तं पश्यन्तो वयं स्थिताः । ततो गुरुभिः प्रोक्तम्- 'नाऽय- | माचारः साधूनाम्, अतः परं न नटो नृत्यन् विलोकनीयः ।' तैः प्रोक्तम्- 'तहत्ति' । पुनः अन्यदा ते एवं साधवः
१ पूर्वेषां दुर्विशोध्यः चरमाणां दुरनुपालकः कल्पः । मध्यमकानां जिनानां सुविशोध्यः सुखानुपात्यच ॥ २ ऋजुजडाः प्रथमाः खलु नटादिज्ञानाद् भवन्ति ज्ञातव्याः । वक्रजडाः पुनश्वरमा ऋजुप्रज्ञा मध्यमा मणिताः ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
ऋजुजडादीनां
दृष्टान्तः ।
॥ ३ ॥