________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
सप्ततिदिनेभ्यः अर्वागपि अन्यत्र गमने कारणत्वान्न दोषः। अथ च कदाचित्-चतुर्मास्युत्तारेऽपि वर्षा न विरमति १, मार्गा वा दुर्गमा भग्ना भवन्ति २, चिखिल्लं वा प्रभूतं स्यात् ३, तदा अधिकमपि तिष्ठेत्, न दोषः। २२ तीर्थङ्करसाधूनां तु सप्ततिदिनस्थितिरूपो नियमो नास्ति, वर्षाया अभावे शेषकालवत् विहारं कुर्वन्ति ॥१०॥ | यथा-मध्यम २२ तीर्थकरसाधूनां कल्पाः, तथा महाविदेहसाधूनामपि कल्पा ज्ञेयाः। मध्यम २२ तीर्थङ्कराणां महाविदेहसाधूनां च-अचेलत्वं १, आदेशिकं २, प्रतिक्रमणं ३, राजपिण्डः ४, मासकल्पः ५, पर्युषणाकल्पश्च । एते षटकल्पा अस्थितरूपा ज्ञातव्याः॥ शय्यातरपिण्डः १, चतुमेंहाव्रतरूपो धर्म: २, पुरुषः ज्येष्ठो धर्मः ३, बन्दनकदानं च ४। एते कल्पास्तु स्थिति(त)रूपाः॥इति १० कल्पाः॥ एष कल्पः श्रुतः पालितः सन् तृतीयौषधसहशो ज्ञातव्यः। तथा हितत्र दृष्टान्तो यथा-एकस्यापि राज्ञः पुत्रोऽतिवल्लभोऽभूत् , तेन राज्ञा विचारितम्-'यदि पुत्रस्य अनागते रोगे चिकित्सा कार्यते, तदा पुत्रः चिरञ्जीवी भवति। तस्मिन् प्रस्तावे त्रयो वैद्या राज्ञा आकारिताः पृष्टाश्च, तदा त्रयाणां मध्ये एकः प्राह-'ममौषधं व्याधिसद्भावे व्याधिं गमयति, व्याधिः न भवेत् तदा नवं व्याधिदोषं करोति । तदा राज्ञा प्रोक्तम्-'अनेन औषधेन सुप्तसिंहोत्थापनकल्पेन अलम् । द्वितीयो वैद्यः प्राह'ममौषधं यदि व्याधिः भवेत् तदा तं व्याधि गमयति, न भवेत् तदा दोषं न करोति ।' राज्ञा विचारितम्अनेनाऽपि औषधेन भस्मनि (हुतमिव) कृतकल्पेन अलम् । तृतीयो वैद्यः प्राह-'ममौषधं यदि व्याधिः भवेत् तदा तं व्याधि गमयति, न भवेत् तदाऽपि सौभाग्य-तुष्टि-पुष्टि-दीप्ति-पराक्रमादीन् अनेकान् गुणान्
For Private and Personal Use Only