________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं कल्पलता
व्या० १
॥ २ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री आदिनाथमहावीरसाधूनां न कल्पते । अजितादि २२ तीर्थङ्करसाधूनां तु कल्पते ॥ ४ ॥ " कृतकर्म" बंद- कल्पमेदाः । णकः - २४ तीर्थङ्कराणामपि लघु साधुना वृद्धसाधुः वन्दनीयो वन्दनकानि देयानि ॥ ५ ॥ " व्रतम् " महाव्रतानि श्री आदिनाथमहावीरसाधूनां पञ्चमहाव्रतानि भवन्ति । अजितादि २२ तीर्थङ्करसाधूनां तु चत्वारि महाव्रतानि भवन्ति स्त्रीणां परिग्रद्ररूपत्वेन पंचमवृत्ते एव आंतरभावात् ॥ ६ ॥ "ज्येष्ठः " सर्वेषां तीर्थङ्कराणां पुरुषज्येष्ठो धर्मो जातः, यतः शतवर्षदीक्षितया अपि साध्या अय दीक्षितोऽपि साधुर्वन्दनीयः; यदुक्तं
वरिससयदिक्खिआए, अचाए अजदिक्खिओ साहू । अभिगमणवंदणनमं-सणेण विणएण सो पुज्जो ॥१॥ अथवा श्री आदिनाथमहावीरसाधूनां ज्येष्ठत्वं उपस्थापनापर्यायेण वृद्धदीक्षापेक्षया, २२ तीर्थंकरसाधूनां तु मूलदीक्षया ज्येष्ठत्वम् ॥ ७ ॥ " प्रतिक्रमणम्" श्री आदिनाथमहावीरसाधुभिर्निश्चयेन उभयकालं प्रतिक्रमणं कर्तव्यम् । २२ तीर्थङ्करसाधुभिस्तु अतीचारे कारणे जाते प्रतिक्रमणं क्रियते, न जाते न क्रियते ॥ ८ ॥ “मासकल्पः" श्री आदिनाथमहावीरसाधुभिः शेषकाले अष्टमासेषु मासकल्पः क्रियते । २२ तीर्थङ्करसाधुभिस्तु न मासकल्पः क्रियते ॥ ९ ॥ "पर्युषणाकल्पः " श्रीआदिनाथमहावीरसाधूनां वर्षाया अभावेऽपि क्षेत्रसद्भावे उत्कृष्टश्चतुर्मासिकस्थितिरूपः पर्युषणाकल्पः प्रोक्तः। क्षेत्रस्य अभावे तु भाद्रपदसुदिपञ्चमीयावतक्षेत्रगवेषणाकार्याः, भाद्रपदसुदिपश्चमीतः आरभ्य सप्तति (७०) दिनस्थितिरूपोऽवश्यं कर्तव्य एव । तत्राप्ययं विशेषो यथाकदाचित् अशिवमुत्पद्यते १, भिक्षा वा न लभ्यते २, राजा वा दुष्टो भवति ३, ग्लानत्वं च जायते ४, तदा
For Private and Personal Use Only
॥ २ ॥