________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आचेलकु-द्देसिअ-सिजायर-रायपिंड-किअकम्मे । वय-जिट्ठ-पडिक्कमणे मासं पज्जोसवणकप्पो॥१॥ "अचेलत्वं श्रीआदिनाथमहावीरसाधूनां वस्त्रं मानप्रमाणसहितं जीर्णप्राय धवलं च कल्पते । श्रीअजितादि २२ तीर्थकरसाधूनां तु पञ्चवर्णम् ॥१॥"औद्देशिकम्" श्रीआदिनाथमहावीरसाधूनां एकस्यापि साधोनिमित्तं यत् कृतम् आधाकर्मादि तत् सर्वेषां साधूनां न कल्पते, अथ च अजितादि २२ तीर्थकरसाधूनाम् यस्यैव साधोर्निमित्तं आधाकर्मादि कृतं तत् तस्यैव साधोन कल्पते, अन्येषां साधूनां कल्पते एव ॥२॥"शय्यातरः"= उपाश्रयदाता वसतिखामी, तस्य पिण्डः चतुर्विशतितीर्थकरसाधूनामपि न कल्पते । तत्राप्ययं विशेषो यथाशय्यातरगृहे साधुभिः द्वादशप्रकार: पिण्डो न ग्राह्यः। द्वादश भेदा यथा-अशन १ पान २ खादिम ३ खादिम ४ वस्त्र ५ पात्र ६ कम्बल ७ रजोहरण ८ सूची ९ पिप्पलक १० नखरदन ११ कर्णशोधन १२ द्वादश रूपाः एते अकल्पाः ॥ तृण १ भस्म २ डगल ३ मल्लक ४ पीठ ५ फलक ६ शय्या ७ संस्तारक ८ लेपादि ९ वस्तूनां सोपधिकशिष्यस्य च ग्रहणं कल्पते । यतो वाहपरिभोगत्वेन तेषां भगवता आज्ञा-दत्ता अस्ति । शय्यातर-2 गृहं च इत्थं भवति-यस्य गृहे साधवो रात्री चतुरःप्रहरान् तिष्ठन्ति जाग्रति च, परं प्राभातिकं आवश्यक प्रतिक्रमणं अन्यस्य आसन्नस्य कस्यचिद्गृहे प्रतिक्रमणं कुर्वति । तदा यस्य गृहे रात्रौ सुप्ताः तस्य गृहं शय्यातरं न भवति, किन्तु यत्र प्रतिक्रमणं कृतं तत् शय्यातरगृहं स्यात् । अथ च एकस्य गृहे सुप्तं अन्यस्य गृहे प्रतिक्रमणं कृतम्, तदा द्वयोरपि शय्यातरगृहे भवतः ।। ३ ।। "राजपिण्डः” राजा छत्रधरः, तस्य पिण्डः
FamoXaxxXOXOXOXOXOXAX8XO
For Private and Personal Use Only