________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं कल्पलता व्या० ७
॥ २१० ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गतौ, देवाच आकाशे साक्षिणः स्थिताः पश्यन्ति । ततो द्वावपि भरत - बाहुबलीसम्मुखं धावितौ । परं कीदृशौ ? । अनिमिषी स्फाटिताक्षी रक्तमुखौ महाशूरवीरौ अभङ्गभदौ काञ्चनवर्णो शैलसमुन्नतो अन्योन्यालोकनतत्परौ क्षणमात्रं जाती । ततो भरतस्य नेत्रयोः सूर्यदर्शनादिवत् जलं समागतं, मिलिते नेत्रे । ततो देवैः पुष्पवृष्टिः कृता, प्रोक्तं च- "जितं बाहुबलिना १ ।” पुनः वाग्युद्धे प्रारब्धे महाघोरः कम्पितपर्वतो भरतेन सिंहनादः कृतः । ततो बाहुबलिनापि ब्रह्माण्डस्फोटकारकः क्ष्वेडानादः कृतः, तेन सिंहनादेन भरतनादः प्रतिहतः । भरतनादेन बाहुबलिः उत्कर्णो जातः । बाहुबलिनादेन च भरतेन कर्णौ पिहिती। अत्रापि देवैः प्रोक्तं- "जितं बाहुबलिना २ ।” पुनः बाहुयुद्धं प्रारब्धं । भरतेन गोपुरस्य अर्गला इव वाहुः प्रसारितः । ततो बाहुबलिः कमलनालबत् बाहुं नामयति स्म । ततो बाहुबलिना बाहुः प्रसारितः । तं भरतो न अनामयत्, प्रत्युत शाखायां वानरवत् हिण्डोलितः । ततो देवैः प्रोक्तं- "जितं बाहुबलिना ३ ।” पुनः मुष्टियुद्धं प्रारब्धं । ततः कटीबद्धपटीको वीरकुञ्जरौ पादन्यासकम्पितधरणीतली कृतमहानादौ ताडितनिजभुजदण्डी संमुखं आगतौ । ततो भरतेन मुष्टिना बाहुबलिस्ताडितो मस्तके आजानुमनः । पुनः निमीलितनेत्रः क्षणं स्थित्वा बाहुबलिः भरतं कन्दुकवत् आकाशे उच्छालयित्वा पतन्तं पुनरनुकम्पया भुजाभ्यां धृत्वा मस्तके प्रहारं ददौ । तेन भरतः आकण्ठ मनः । पुनर्देवैः प्रोक्तं- "जितं बाहुबलिना ४ ।” ततो दण्डयुद्धं प्रारब्धं, पूर्व भरतेन लोहदण्डो मुक्तः, तेन बाहुबलिमुकुटः चूर्णीकृतः जीर्णभाण्डवत्, बाहुबलिरपि मेदिन्यां आजानु ममज्ज । ततो बाहुबलिनापि लोह
For Private and Personal Use Only
भरत बाहुबलिनोः
युद्धं
॥२१० ॥