________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आयाति । तदा लवणसमुद्रजलमध्ये वापञ्जरं कृत्वा षण्मासी स्थितः । ततो ग्रीवा बहिः निष्कासने चक्रेण - मारितः। पुनरपि अनेके सुभटाः परस्परं युद्धं कुर्वन्ति स्म । पुनः सूर्ययश:-सोमपशसोः युद्धे जायमाने सुर्ययशाः कटकमुल्लङ्घ्य बाहुवलिसमीपे प्राप्तः उवाच-"आगच्छ बहिः, गृहाण शस्त्राणि, मारय मां । ततो बाहुबलिरपि विहस्य पाह-"रे पुत्र! तव पराक्रमेण अहं तुष्टोऽस्मि, इक्ष्वाकुवंशे ईशा एव साहसवन्तो भवन्ति । परं मम मुष्टिः दुर्धरा अस्ति । 'त्वं याहि याहिं' इति देवैः वारितः। एवं द्वादशवर्षाणि युद्धं जातं, न कोऽपि हारितो, न कोऽपि जितः, परं मनुष्याणां संहारो जातो, रुधिरनद्यो व्यूढाः। ततो महाऽनर्थ जायमानं दृष्ट्या सौधर्मेन्द्र-चमरेन्द्राभ्यां भरतः पूर्व प्रतिबोधित:-"भो! ऋषभखामिना जगतः सृष्टिः कृता, भवता तु जगतः संहारः प्रारब्धः ।" ततो भरतेनोक्तं-"अहं किं करोमि ? मम चक्रं न प्रविशति । बाहुबलिः आज्ञा न मन्यते, एवं चेत् तर्हि द्वाभ्यां एव योद्धव्यं, किमन्पसंहारेण?" ततो भरतेन अङ्गीकृतं । ततो द्वावपि
इन्द्री बाहुबलिसमीपे गती । विज्ञसिस्तुतिकरणपूर्व प्रोक्तं अङ्गीकृतं च बाहुबलिनापि। ततो भरतेन वामa हस्तकनिष्ठाङ्गुलिचालनात् खातिकापरतोऽन्योन्यशृङ्खलाबद्धकटकापकर्षणात् स्ववलपरीक्षा कृता । अथ इन्द्रादिदेवैः पञ्चयुद्धानि स्थापितानि-दृष्टियुद्ध १ बाग युद्ध २ बाहुयुद्ध ३ मुष्टियुद्ध ४ दण्डयुद्धानि ५, एतैः पञ्चयुद्धैः यो जितः स जितो ज्ञेयः । अत्रान्तरे देवैः श्रीआदीश्वरशपथं दत्वा द्वयोः सैन्यं दूरे स्थापितम् ॥
अथ सुगन्धपानीयसंसिक्ते विकीर्णपञ्चविधपुष्प रणे द्वावपि धृतसंनाही मुकुटटोपविराजमानौ संमुखी समा
For Private and Personal Use Only