SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्रं कल्पलता व्या० ७ ॥ २०९ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir "अहं श्री भरतस्य पदातिः अस्मि त्वं च श्रीबाहुबलेः पुत्ररत्नं मम स्वामी, ततः त्वं प्रथमं शस्त्रं वाय॒ ।” ततः सिंहरथेन वाहिते शस्त्रे क्रुद्धः सेनानीः ख मुमोच । तावदन्तराले सिंहरथस्य भ्राता सिंहकेतुः तेन स्खलितः । ततो विशेषतः क्रुद्धः सुषेणसेनानीः, बाहुबलेः सेनां विलोडयन तृणवत् भटान् अवगणयन् बाहुबलिपार्श्वे गतः । तावता अनिलवेगनामा विद्याधरो बाहुबलेः पादौ प्रणम्य संमुखं गतः एवं प्राह - "हे सुषेण ! त्वं श्री भरतस्य सेनानीः, अहं तु श्रीबाहुबलेः पदातिः सामान्योऽस्मि, परं मम बलं पश्य ।" इत्युक्त्वा लग्नः । अथ तौ साक्षात् मल्लौ इव मदोन्मत्तहस्तिनी इव अमिलतां । ततः शराशरि मुष्टामुष्टि युद्धं जातं । सुषेणः खङ्गं गृहीत्वा सिंहरथस्य मस्तके यावत् मुञ्चति तावता सूर्योऽस्तं गतः । तत्र व्यवस्थात्रयं कृतमस्ति - श्रीऋषभदेवाज्ञा १ सूर्यास्तगमनं २ मेघवृष्टिश्च ३ एतत्रये जाते न कोऽपि युध्यति, न कोऽपि घातं मारयति । अथ सन्ध्यायां ये मृताः ते मृता एव । अथ ये किंचिज्जीवन्तः ते भरतसैन्ये काकिणीरत्नजलेन सज्जीक्रियन्ते । बाहुबलिसैन्ये तु सोमयशोहृदयाभरणजलेन । पुनः प्रभाते युद्धे जायमाने सुषेणसेनानीः अनिलवेगं दृष्ट्वा अग्निरिव ज्वलन् अनिलवेगं मारणाय आगतः । तावत् सिंहरथो मध्ये प्रविष्टः । अथ अनिलवेगः सर्वा सेनां | समुल्लङ्घ्य यत्र भरत हस्तिनां दुर्गत्र्यं कृत्वा मध्ये सुखेन सुतोऽभूत् तत्र आगत्य हस्तिनः कर्करानि च ॥ २०९ ॥ आस्फालयन् आकाशे महारूपं विकुर्व्य सेनां व्यलोडयत् । ततो भरतो बहिरागत्य दुर्धरं विद्याधरं विज्ञाय ' मा मम सुरतभङ्गो भावी' इति चक्रं मुमोच । तत् दृष्ट्वा अनिलवेगः प्रणष्टः सन् यत्र यत्र याति तत्र तत्र चक्रं For Private and Personal Use Only भरत बाहु बलिनोः युद्धं
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy