________________
Shri Mahavir Jain Aradhana Kendra
फल्ए० ३६
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्डो भृशं भ्रामयित्वा मुक्तः भरतसंनाहः चूर्णीकृतः । भरतोऽपि आकण्ठं मेदिन्यां निमज्जति स्म । ततो देवैभणितं - "जितं बाहुबलिना ५ ।” ततो युद्धपञ्चकेऽपि बाहुबलिर्जितो भरतो हारितश्च । ततो भरतस्य शङ्का जाता - " किमयं चक्रवर्ती? न अहं ? ।" अथवा चक्रवर्तिद्वयं समुत्पन्नं । ततो लक्षयक्षाधिष्ठितं चक्रं हस्ते गृहीत्वा भ्रामयित्वा च प्रतिज्ञातो भ्रष्टेन भरतेन बाहुबलिशिरश्छेदाय मुक्तं, परं स्वगोत्रे चक्रं न प्रभवतीति बाहुबलि प्रदक्षिणीकृत्य पुनः व्याट्य स्वहस्ते समागतं । ततो जातप्रचण्डकोपेन बाहुबलिना भरतमारणाय मुष्टिं उत्पाठ्य जातसंवेगेन खमस्तके लोचः कृतः । देवैः पुष्पवृष्टिः कृता, जातो महामहोत्सवः । ततो भरतेन बहुविलापदुःखितेन बाहुबलिपुत्राय सोमयशसे तक्षशिलाराज्यं दत्त्वा अयोध्यानगर्यां समागतं । बाहुबलिरपि 'लघुबान्धवान् कथं वन्दिष्ये ' इति विचार्य, एकं वर्षं यावत् कायोत्सर्गे स्थितः । ततः श्रीऋषभदेवेन प्रतिघोधाय ब्राह्मी-सुन्दरीसाध्वीद्वयं मुक्तं । ताभ्यां प्रोक्तं- "हे वीर ! गजात् अवतर" इति । वचनश्रवणात् जातसंवेगो वन्दनार्थं पदोत्पाटने जात केवलज्ञानो, गतः केवलिपर्षदि । इति श्रीभरत बाहुबलियुद्धाधिकारः ॥
अथ अन्यदा अष्टापदे भगवति समवसृते भरतः पञ्चशत ( ५०० ) शकटानि आहारेण भृत्वा आगत्य कुटुम्बसहितं श्रीभगवन्तं भोजनार्थं निमन्त्रयति स्म । श्रीभगवता प्रोक्तं- "राजपिण्डोऽयं १ आधाकर्मेदं २ अभ्याहृतं च ३" इति दूषणत्रयं साधूनां अग्राह्यमिति न गृहीतं । तत इन्द्रेण भरतस्य आश्वासनार्थं अवग्रहाः दृष्टाः । स्वामिना प्रोक्तं-देवेन्द्र १ राजेन्द्र २ गृहपति ३ सागारिक ४ साधर्मिकावग्रहाः पंच ५ । तत्र इन्द्रेण स्वक्षेत्रं
For Private and Personal Use Only