________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
सह चलितः । अग्ने चक्ररत्नं सहस्रदेवाधिष्ठितं प्रस्थितं यावती भुवं गत्वा तिष्ठति, तावत् योजनानि भरतसैन्यं चलितं, तदनुक्रमेण भरतो महीं षट्खण्डां षष्टिसहस्रवर्षेः साधयामास । तत्र गङ्गादेव्या सह वर्षसहस्रं विषयसुखानि बुभुजे । नमिविद्याधरपुत्री नवीनस्त्रीरत्नोत्पत्तौ । षष्टिवर्षसहस्राणि सुन्दर्या आचाम्लानि कृतानि, तेन धुर्वला, ततो भरतेन अनुज्ञाता सती सुन्दरी साध्वी जाता। भरतो अयोध्यायां समेतः तस्मिन प्रस्तावे शस्त्रागारस्य अधिकारिणा विज्ञप्तं-“हे स्वामिन् ! तव बान्धवाः तव आज्ञा न मन्यन्ते, ततः चक्ररत्नं आयुधशालायां न प्रविशति ।” ततो भरतो दूतैः ज्ञापयामास-"यदि भवतां राज्यवाञ्छाऽस्ति तदा आगत्य मम सेवां कुरुत ।" तदा तैः अष्टानवतिकुमारैः विचारित-"तातेन अस्माकं राज्यं दत्तं, किमर्थ भरतं सेवामहे! ।" ततः तातपाः गताः, स्वामिना च अङ्गारकारकदृष्टान्तेन वैतालिकाध्ययनश्रावणेन प्रतियोध्य शिष्याः कृताः । तथापि चक्ररत्नं न प्रविशति, ततो भरतो मुख्यमन्त्रिणं विश्वम्भरं प्राह । ततः सोऽपि प्रणम्य प्राह-“हे खामिन् ! सुरासुरनरेष्वपि तवाऽऽज्ञां यो न मन्यते स कोऽपि नास्ति, परं तव लघुभ्राता गर्वपर्वतो महाबली बाहुबली वर्तते, यस्य दोर्दण्डप्रचण्डप्रहारेण पर्वता अपि चूर्णीभवन्ति। ततो भवता समूलत एव छेदनीयो व्याधिवत् । ततो भरतेन सुवेगनामा दूतो बाहुबलिं प्रति प्रेषितः। प्रथमतः चलनसमये वस्त्रं कण्टके लग्नं १, ततो रथः स्खलितः २, संमुखं छिक्का जाता ३, दक्षिणे रासभोवीत् ४ इत्यादिभिः अपशकुनै वार्यमाणोऽपि महाटवीं समुल्लङ्घ्य गतो बहुलीदेशसीमस्थाने। ततो मार्गरजोधूसरं श्रमाकुलं
Fer Private and Personal Use Only