________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं कल्पलता व्या०७
॥२०७॥
चकार-"अहो ! पुत्रेण ईदृशी ऋद्धिः प्राप्ता, न कदापि मम कुशलक्षेमसमाचारो दत्तः। न कदापि पुत्रेण अहं मरुदेव्याः स्मृता, अहं तु पुत्रदुःखेन अन्धा जाता। अहो! मम सरागता, अहो मम पुत्रस्य नीरागता!। न मे कोऽपि, केवलनाहं कस्यापि ।" इति अनित्यभावनया मोहकर्म क्षपयित्वा, मरुदेवी केवलज्ञानं प्राप्य सिद्धा। अत्र द्वयोःहानप्राप्ति मातृपुत्रयोः श्लाघ्यता जाता। तथाहि
सिद्धिगमन | श्रीऋषभदेवसमः सुपुत्रो न भूतो न भविष्यति, येन वर्षसहस्रेण भुवं भ्रमता क्षुधादिपरीषहदुःखं सहता यत् केवलरनं प्राप्तं तत् निजमातुः आनीय दत्तं । अथ च मातापि ईदृशी न भूता न भविष्यति । यतो यया निजपुत्रार्थ मुक्तिकन्यां शिवमन्दिरे स्थितां पुत्रात् पूर्व निरीक्षितुं गता। ततो देवैः केवलमहिमा कृता । ततः शरीरं क्षीरसमुद्रे प्रवाहितं । भरतचक्रवर्ती समवसरणे गत्वा प्रभुं नत्वा उपविष्टः। श्रीभगवता च देशना दत्ता । तत्र भरतस्य मरीचिप्रमुखाः पञ्चशतपुत्राः ससशतपौत्राश्च प्रतिबुद्धाः दीक्षां जगृहुः । तेषां मध्यात् पुण्डरीकादयः चतुरशीतिगणधरा जाताः, ब्राह्मी च प्रवर्तिनी जाता। सुन्दरी तु सुरूपत्वात् 'स्त्रीरत्नं मम भविष्यति' इति भरतेन स्थापिता । कच्छमहाकच्छौ विना अन्ये तापसा भगवतः शिष्या जाताः। यस्य वृक्षस्य ॥२०७॥ अधः श्रीभगवतः केवलज्ञानं उत्पन्नं, तस्य पूजा जाता। कालक्रमेण तस्य वृक्षस्य 'प्रयागवट' इति नाम जातम् । अथ भरतेन गृहे आगत्य चक्ररत्नस्य अष्टाहिकामहोत्सवः चक्रे । अथ श्रीभरतः षट्खण्डसाधनाय सैन्येन
For Private and Personal Use Only