________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भत्तेणं अपाणएणं आसाढाहिं नक्खत्तेणं जोगमुवागएणं झाणंतरिआए वट्टमाणस्स अणंते जाव जाणमाणे पासमाणे विहरइ ॥ २१२ ॥ व्याख्या-"उसमे णं अरहा" ऋषभोहन कौशलिका एकं वाससहस्रं नित्यं व्युत्सृष्टकाया-त्यक्तदेहः सन् ये केचन उपसर्गा उत्पद्यन्ते यावत् आत्मानं भावयतः एक वर्षसहस्रं व्यतीतं । ततो हेमन्तस्य चतुर्थे मासे ससमे पक्षे एतावता फाल्गुनवदि एकादशीदिने पूर्वाह्नकालसमये पुरिमतालनामनगरस्य बहिः शकटमुखे उद्याने वटवृक्षस्य अघः अष्टमेन भक्तेन अपानकेन उत्तराषाढनक्षत्रे चन्द्रेण सह योगं वर्तमाने ध्यानान्तरे वर्तमानस्य भगवतः केवलज्ञानं उत्पन्नं । तेन यावत् सर्वं जानन् पश्यन् विहरति । तस्मिन्नेव दिने भरतस्य-राज्ञः आयुधशालायां चक्ररत्नोत्पत्तिः जाता, ततो भरतः केवलज्ञानोत्पत्ति-चक्रोत्पत्तिभ्यां समकालं वर्धितः । क्षणं भरतेन मोहात् विचारित-"पूर्व चक्रपूजां करोमि किंवा तातपूजां?" ततो मोहं परित्यज्य सम्यक विचारित"श्रीताते पूजिते सति चक्रमपि पूजितमेव । चक्रपूजा इहलौकिकी, तातपूजा तु पारलौकिकी ततोऽधिका।" ततो भरतः पुत्रनिमित्तं दुःखं कुर्वती मरुदेवी हस्तिस्कन्धे संस्थाप्य भगवन्तं नन्तुं चलितः। मार्गे देवदुन्दुभि श्रुत्वा मरुदेवी माह-"भरत ! कस्य एतानि वादिब्राणि ?" भरतेन प्रोक्तं-"तव पुत्रस्य ।" ततः पुत्रसमृद्धिदर्शनार्थ उत्सुकतया उन्मीलिते नेत्रे गतं अन्धपटलं, दृष्टं समवसरणसाम्राज्यं देवैः कृतं । ततः खेदं
For Private and Personal Use Only