________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र कल्पलता व्या०७
भगवतः केवलज्ञानोत्पचिः
॥२०६॥
अथ स्वामिदीक्षानन्तरं मरुदेवीखामिनी पुत्रस्नेहेन चिन्तयति-“हे पुत्र ! त्वं मां म्लानपुष्पमालामिव १ जीर्णवस्त्रखण्डमिव २ वस्नलग्नरजोवत् ३ त्यक्त्वा वने भ्रमसि, अहं शृणोमि त्वां क्षुधातुरं, परं अहं दुर्मरा न निये।। हे सख्यौ! मम पुत्रस्य सुन्दरीहस्तकङ्कणझणत्कार:-कणत्कारः पूर्वमासीत् । सांप्रतं तु मशकश्रेणिभणत्कारः श्रूयते १, पुनः मत्पुत्रस्य पूर्व छत्रं प्रियमाणमासीत् । अधुना तु सूर्यमण्डलं अत्यन्तमुष्णं मस्तके तपति २, पुनः पूर्व हस्ति-घोटक-सुखासन-यानचारी आसीत् । इदानीं तु अनुपानत्कः सन् एकाकी भ्रमति ३, पुनः पूर्व सुकुमालशय्याशायी अभूत्, सांप्रतं तु कठिनपृथिव्यां तिष्ठति, कायोत्सर्ग च करोति ४, भरतादयश्च सर्वेऽपि पृथिवीं पालयन्ति, परं मम पुत्रस्य न कोऽपि वार्तामात्रमपि पृच्छति । इति दुःखकरणेन मरुदेवी अन्धा जाता । तस्मिन् समये श्रीभगवतः केवलज्ञानं उत्पन्नं, तत्राह
उसभे णं अरहा कोसलिए एगं वाससहस्सं निचं वोसट्टकाए चियत्तदेहे जे केइ उवसग्गा जाव अप्पाणं भावमाणस्स इक्कं वाससहस्सं विइकंतं, तओ णं जे से हेमंताणं चउत्थे मासे सत्तमे पक्खे फग्गुणबहुले, तस्स णं फग्गुणबहुलस्स इक्कारसीपक्खेणं पुवण्हकालसमयंसि पुरिमतालस्स नयरस्स बहिआ सगडमुहंसि उज्जाणंसि नग्गोहवरपायवस्स अहे अट्ठमेणं
॥२०६॥
For Private and Personal Use Only