________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं
कल्पलता व्या०७
भरतेन बाहुबलिं प्रति दूतप्रेषणं
॥२०८॥
परदेशिनं दृष्ट्वा शालिक्षेत्रगोप्यः पानीयहारिकाश्च पृच्छन्ति स्म-"भो। कुतः समागतः, कस्तव खामी?" तेनोक्तं-"भरत" इति । ताभिः प्रोक्तं-"अस्माकं कञ्जलिकायां एको भरतः १, धातुसम्बन्धी भरतः २, उदरे रोगविशेषो भरतः, ३, एतत् भरतत्रयं विना अस्माभिः भरतो राजा कर्णैः अपि न श्रुतः।" ततः सुवेगेन विचारितं-अहो आश्चर्य ! अहो बाहुबले प्राज्यराज्यसाम्राज्यं ।।" ततो गतः तक्षशिलानगरी स्वर्गपुरीसहशीं पश्यन राजद्वारे क्षणं तत्र द्वारे प्रतीहारैः निरुद्धोऽपि राजाज्ञया गतो बाहुबलिसमीपं, भ्रूसंज्ञया आसने स्थापितः पृष्ठं-"भो! भरतस्य सपादकोटीपुत्रादीनां च कुशलं वर्तते ? ।” सुवेगः प्राह-"देव! यस्य सेवा यक्षलक्षः [क्रियते, यस्य च श्रीऋषभदेवः सांनिध्यं करोति, तस्य कुतोऽकुशलं?, परं तव सेवां विना राज्यं निष्फलं जानाति । ततो देहि खस्य सङ्गम। न च ज्ञेयं इयन्ति दिनानि नाऽऽगतः, अथ कथं गच्छामि। यतो वृद्धो भ्राता लघोः अपराधं सहिष्यति । कुलीनानां च ज्येष्ठो भ्राता पितृवत् मान्यः पूज्यश्च भवति।" ततो बाहुबलिः चमत्कृतो ज्ञातपरमार्थोऽवादीत-"रे दूत ! त्वं अवध्यः स्वखामिसेवाकार्यसावधानः, परं तव स्वामिनः लेहो ज्ञातो लघुनातृराज्यहरणात् । परं मम तव खामिसेवायां प्रयोजनं नास्ति।" ततो दूतः प्राह-"भो। बाहुबले।। यदि तव राज्येन देशेन कोशेन कुटुम्बेन जीवितव्येन च वाञ्छा वर्तते, तदा श्रीभरतं सेवख ।” ततः कोपं कृत्वा सुवेगदूतो बाहुबलिना तिरस्कृतोऽपद्वारेण निष्कासितः। सोऽपि जीवं लात्वा गतो भरतसमीपं, द्विगुणवार्तया प्रकोपितो भरतः चतुरङ्गिण्या सेनया सह दापितभम्भानादो, मस्तके धृतछत्रो वीज्यमानचामरः
॥२०८॥
For Private and Personal Use Only