________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रेयांसकुमारकृता भगवता पारणा
कल्पसूत्रं गजपुरे नगरे समागतः। तत्र गजपुरखामी याहुबलिपुत्रः सोमप्रभो राज्यं करोति । तस्य पुत्रः श्रेयांसो कल्पलता युवराजा वर्तते । तस्यां रात्री श्रेयांसः स्वप्ने मेरुपर्वतं श्यामं जातं सन्तं अमृतकुम्भैः धौतं अधिकं शोभमानं व्या०७ ददर्श १, सोमयभो राजा एकः सुभटो वैरिभिः आक्रान्तः सन् श्रेयांससाहाय्यात् जयं लब्धवान् इति
| खप्नं ददर्श २, सुबुद्धिश्रेष्ठी सूर्यस्य किरणान् पततः श्रेयांसः तान् सूर्यमण्डले स्थापयामास इति खप्नं ददर्श ॥२०४॥
|३, राजा प्रभाते आस्थाने आगत्य स्थितः । खप्नविचारे क्रियमाणे सर्वैः प्रोक्तं-"अद्य कोऽपि श्रेयांसकुमारस्य महान् लाभो भविष्यति।"तस्मिन् समये श्रीऋषभदेवः प्रतिगृहंगोचरी भिक्षां परिभ्रमति । लोकाः केचित् कन्यां ददति, केऽपि प्रधानवस्त्राणि, केपि स्वर्ण, केऽपि मणिमाणिक्यरत्नप्रवालादीनि प्रयच्छन्ति । परं भगवान न गृह्णाति । ततः कोलाहलो जातः । तस्मिन् प्रस्तावे श्रेयांसकुमारो गवाक्षे स्थितः प्रपितामहं श्रीऋषभदेवं दृष्ट्वा, जातिस्मरणं पाप । पूर्वभवसम्बन्धं ददर्श । स्वामी ललिताङ्गः तदा अहं स्वयंप्रभा देवी १, स्वामी वज्रजो राजा तदा अहं श्रीमती भार्या २, ततः उत्तरकुरुक्षेत्रे खामी युगलिकः अहं युगलिनी ३, सौधर्मे देवलोके मित्ररूपी देवौ ४, स्वामी वैद्यपुत्र आनन्दः, तदा अहं श्रेठिपुत्रः केशवनामा मित्ररूपः ५, स्वामी अच्युते देवलोके देवः, | अहं स्वामिनो मित्रदेवः ६, स्वामी वज्रनाभश्चक्री, अहं स्वामिनः सारथिः ७, स्वामी सर्वार्थसिद्धिविमाने देवः,
अहमपि तत्रैव देवः ८, स्वामी ऋषभदेवस्तीर्थङ्करः, अहं श्रेयांसनामा भगवतः प्रपौत्रः ९ इति नवभव*सम्बन्धो मम भगवता सह । ततो गवाक्षात् उत्तीर्य प्रदक्षिणात्रयं दत्त्वा विधिना अभिवन्ध, खगेहाङ्गणे
॥२०४॥
For Private and Personal Use Only