________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यित्वा स्वजनं आदाय दक्षिणश्रेणेः नमिः राज्यं कुरुते स्म । उत्तरश्रेणी च विनमिः राज्यं कुरुते स्म इति नमिविनमिसम्बन्धः || एकदा स्वामी विहरन् बहुलीदेशे तक्षशिलां नगर्या आगतः, तत्र सन्ध्यायां उद्याने कायोत्सर्गेण स्थितः । तत्र उद्यानपालकेन श्रीबाहुलेः प्रभोः आगमनं कथितं तस्मै पारितोषिकं दानं दत्त्वा, बाहुबलिः विचारितवान्-"साम्प्रतं त्रीणि लक्षाणि पुत्राः तथैव प्रपौत्रादयः परिवारो मिलितो नास्ति ।” ततः प्रभाते 'महत्या विच्छित्त्या वन्दनाय गमिष्यामि' इति सन्ध्यसमये न गतः । ततः प्रभाते सर्वपरिवारं मेलयित्वा नगरीशोभां कृत्वा गजारूढो गतो भगवद्वन्दनार्थं, परं श्रीभगवान् वायुरिव अप्रतिबद्धविहारि स्वात् सन्ध्यायामेव क्षणं स्थित्वा विहृत्य गतो दूरदेशे । ततो बाहुबलिः तत्र श्रीभगवन्तं अदृष्ट्वा महाखेदं चकार । कर्णयोः अङ्गुलिं क्षित्वा उच्चैः रुरोद । सम्प्रदायात् एवं श्रूयते तत्र “बाबा आदम" इति वदन्तो "यांग” ददति । ततो चांगप्रवृत्तिः । ततो बाहुबलिः खामिभक्त्या यत्र खामी कायोत्सर्गे स्थितः तन्त्र स्थाने धर्मचक्रं नाम अष्टयोजनविस्तीर्ण एकयोजनोवं सहस्रारं रत्नमयं पीठं चकार । तदुपरि भगवतः पादुके स्थापयित्वा अयं श्रीभगवानेव इति बुद्ध्या ननाम । लोका अपि सर्वे तथैव महिमां चकुः । इति तक्षशिलानगर्यां बाहुबलिसम्बन्धः ॥
अथ श्रीभगवतः कियता कालेन कस्मिन् नगरे केन पारणं वत्तं तत्स्वरूपं कथ्यते । तथाहि
अथ श्रीभगवान् वर्षं यावत् आहारं विना स्थितः परं मेरुवत् अप्रकम्पो अदीनमनाः एकदा विचरन्
For Private and Personal Use Only