________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं कल्पलता व्या०७
नमिविनमिसम्बन्धः
॥२०३॥
भिक्षा? । ततः चत्वारोऽपि सहस्राः उग्रादयः क्षुधापरीषहपीडिताः गङ्गानदीदक्षिणकूले वनमध्ये तापसा जाताः। परं कीदृशाः? । स्वयंपतितपत्रपुष्पफलाहारिणः वल्कलचीरधारिणः श्रीऋषभदेवमेव ध्यायिनः। | अथ श्रीभगवता यदा दीक्षा गृहीता, देशाः पुत्राणां च दत्ताः,तदा कच्छमहाकच्छसुतौ नामिविनमी पुत्रवत् पालिती पार्श्वे न अभूतां, पश्चात् आगतौ राज्यार्थिनी व्रतस्थमपि भगवन्तं सेवितवन्तौ । तदा धरणेन्द्रो भगवन्तं नमस्कतुं समागतः, तदा नमिविनमी प्रभोः पादयोः अग्रे जलच्छण्टकं दत्त्वा पुष्पप्रकरं अग्रे| मुक्त्वा विज्ञर्ति चक्रतुः-“हे स्वामिन् ! राज्यं देहि" तदा धरणेन्द्रः प्राह-"प्रभुः त्यक्तराज्यसङ्गा, देयं किमपि नास्ति, युवां भरतं याचेथाः।" ताभ्यां प्रोक्तं-"यथा भरतः सुतः तथा आचां अपि जिह्वाजल्पिती सुतौ, तस्मात् [आवां] अन्यं न आश्रयावहे ।" ततः स्वामिभक्तिसन्तुष्टो धरणेन्द्रः अष्टचत्वारिंशत् ४८ सहस्रविद्याः पाठसिद्धा अदात् । ततो गौरी-गान्धारी-प्रज्ञप्ति-रोहिणी-देवताधिष्ठातृ-महाविद्याबलेन खजनान् उपलोभ्य सर्वान् | विद्याधरान् कृत्वा वैतादयपर्वतस्य दक्षिणोत्तरश्रेण्योः पञ्चशतरथनूपुरचक्रवालादिनगराणि षष्टिश्च गगनवल्ल-1 भादिनगराणि अनुक्रमेण स्थापयित्वा राज्यं कुर्वाते स्म । अथ च धरणेन्द्रोऽपि इत्थं विद्याधराणां शिक्षां दत्त्वा खस्थानं गतः। का शिक्षा?, इत्याह-"रे विद्याधराः! यो जिनानां १ जिनचैत्यानां २ चरमशरीरिणां ३ प्रतिमाप्रतिपन्नानां साधूनां ४ पराभवं लङ्घनं वा करिष्यति, परस्त्रियं अवाञ्छती बलात् यो रमयिष्यति (तस्य) विद्या निष्फला भविष्यति ।" इति, रत्नभित्तो प्रशस्ति अपि लिलेख । ततः खामिसेवाफलं भरताय कथ
For Private and Personal Use Only