________________
Shri Mahavir Jain Aradhana Kendra
wwww.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
चउहिं पुरिससहस्सेहिं सद्धिं एगं देवदूसमादाय मुंडे भवित्ता अगाराओ अणगारियं पवइए ॥ २११ ॥ ब्याख्या-"पुणरवि लोअंतिएहिं” अब पुनरपि श्रीऋषभदेवो लोकान्तिकदेवः प्रतियोधितः सांवत्सरिकदानं दत्त्वा ग्रीष्मकाले प्रथमे मासे प्रथमे पक्षे एतावता चैत्रवदि अष्टमीदिने दिवसस्य पश्चिमे भागे सुदर्शनानामशिबिकामारुश्य देवैः मनुजैः असुरैः समनुगम्यमानमार्गः विनीता राजधानी मध्यभागेन निर्गच्छति, निर्गत्य यत्रैव सिद्धार्थनाम उद्यानं यत्र अशोकवरपादपः तत्र आगच्छति, आगत्य च अशोकवरपादपस्य अधस्तात् चतुर्मुष्टिकं लोच करोति । एकां हि मुष्टिं इन्द्रस्य आग्रहेण रक्षितवान् । यतः स्कन्धस्था एका-केशमुष्टिः वायुना आन्दोलिता सती स्वर्णकलशोपरि नीलोत्पलपिधानसदृशी शोभते स्म । तथा षष्ठेन तपसा अपानकेन उत्तरापाढानक्षत्रे चन्द्रेण सह योगं वर्तमाने उग्राणां १ भोगानां २ राजन्यानां ३ क्षत्रियाणां ४ च चतुर्भिः पुरुषसहस्रैः खयं कृतलोचैः यथा श्रीभगवान् करिष्यति तथा वयमपि करिष्यामः इति जानद्भिः तैः सार्ध एक देवदृष्यं वस्त्र आदाय मुण्डो भूत्वा अगारात् अनगारतां साधुतां प्रव्रजति स्म । तदैव भगवतः चतुर्थ मनःपर्यायज्ञानं समुत्पन्नं । अथ श्रीऋषभदेवो वृषभगतिः सन् घोरं अभिग्रहं कृत्वा त्यक्तदेहः परिभ्रमति स्म । तदा भिक्षा न कोऽपि जानाति, न कोऽपि ददाति । के कीदृशाश्च भिक्षाचराः?, का कीदृशी च
For Private and Personal Use Only