________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं कल्पलता व्या० ७
॥ १९३ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1
चेतसि विचारितं - " मम भर्ता ललिताङ्गदेवः कुत्र समुत्पन्नोऽस्ति ?, तमेव परिणयामि, तदा भव्यं ।" तदा तं अजानती मौनमाश्रित्य स्थिता । अनेके उपचाराः कृताः, परं न जल्पति । ततः एकान्ते धातृमात्रा पृष्टा सती एकं पदं आलिख्य दत्ते स्म । पण्डिता धातृमाता वज्रसेनचक्रवर्तिनो वर्षग्रन्थिमहोत्सवे यत्र अनेके राजकुमाराः समागताः सन्ति, तत्र तं पटं लात्वा, राजमार्ग स्थिता । तत्र अनुक्रमेण समागतो वज्रजङ्घः तं पटं दृष्ट्वा जातिस्मरणं ज्ञानं प्राप कथयति स्म च - " स्वयम्प्रभया मम पूर्वभवभार्यया इदं पटे चरितं, लिखितमस्ति ।” पुनः पण्डिताया अभिज्ञानान्यपि अपूरयत् । ततो धातृमात्रा श्रीमत्यै सर्व खरूपं कथितं श्रीमत्या च स्वपित्रे प्रोक्तं - "एष मे पूर्व भवपतिः ।" ततो वज्रसेनचक्रवर्तिना तं वज्रजङ्घ आकार्य, श्रीमती परिणापिता । ततः कियन्ति दिनानि स्थित्वा श्रीमतीं लात्वा वज्रजङ्घः स्वकीयनगरे समेतः । ततः खर्णजङ्घो राजापि वज्रज पुत्रं राज्ये स्थापयित्वा स्वयं दीक्षां जग्राह । अथ वज्रजङ्घो राजा श्रीमत्या सह चिरकालं सुखं भुञ्जानो रात्रौ सुप्तः सन् एवं चिन्तयति- "प्रभाते पुत्रस्य राज्यं दत्त्वा अहं दीक्षां ग्रहीष्यामि ।” तस्यां रात्रौ राज्यग्रहणाय उत्सुकेन पुत्रेण विषधूमप्रयोगेण मातापितरौ मारितौ ॥ इति षष्ठो भवः ॥ ६ ॥ ततः तौ मृत्वा उत्तरकुरुक्षेत्रे युगलिनौ जातौ ॥ इति सप्तमो भवः ॥ ७ ॥ ततः सौधर्मे प्रथमे देवलोके मित्ररूपौ देवी जातो ॥ इति अष्टमो भवः ॥ ८ ॥ ततः च्युत्वा वज्रजङ्घो जम्बूद्वीपे महाविदेहक्षेत्रे क्षितिप्रतिष्ठितनामनगरे सुविधेः- वैद्यस्य आनन्दनामा पुत्रो जातः । तस्मिन्नेव दिने तत्र नगरे अन्ये चत्वारः पुत्रा जाताः ।
For Private and Personal Use Only
आदि
नाथस्य
त्रयोदश
भवाः
॥ १९३ ॥