________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तथाहि-प्रसन्नचन्द्रस्य राज्ञो महीधरः पुत्रो जातः १, सुनासीरनाममश्रिणः सुबुद्धिनामा पुत्रो जातः २, धननामश्रेष्ठिनो गुणाकरनामा पुत्रो जातः ३, सागरनामसार्थवाहस्य पूर्णमदः पुत्रो जातः ४, अथ श्रीमतीजीवोऽपि सौधर्मदेवलोकात् च्युत्वा ईश्वरदत्तनामश्रेष्टिनः केशवनामा पुत्रो जातः ५। एवं ते पञ्चापि आनन्दस्य श्रीआदीश्वरजीवस्य परममित्राणि । ते षडपि सहभोजिनः सहचारिणः सहरममाणाः सुखेन कालं गमयन्ति । अन्यदा वैद्यपुत्रस्य आनन्दस्य गृहे एका साधुः समागतः । परः कीदृशः । कुष्ठीकृमिसमाकुलकायः । ततो राजपुत्रेण प्रोक्तं-"भो वैद्य ! तव औषधज्ञानमस्ति, परं कृपा नास्ति । यत् ईशस्य साधोः चिकित्सां न करोपि । ततो वेद्यपुत्रेण प्रोक्तं-"एक तैलं मम अस्ति, परं गोशीर्षचन्दनं रत्नकम्पलं च नास्ति । ततः तैः पञ्चभिः मित्रैः द्रव्यं मेलयित्वा हहे गत्वा वृद्धवणिजस्य प्रोक्तं-"भो! गृहाण इदं द्रव्यं, देहि | गोशीर्षचन्दनं रत्नकम्बलं च ।" ततो वणिजेन प्रोक्तं-"किं युष्माकं कार्यमस्ति ? ।" तैः प्रोक्तं-"साधुरेका कुष्ठरोगपीडितो वर्तते, तस्य प्रतिचयां करिष्यामः । ततो वृद्धो वणिजो धन्या एते युवानो येषां ईदृशी धर्मवाञ्छा इति प्रतिबुद्धः सन् गोशीर्षचन्दनं रत्नकम्बलं च तेभ्यो धर्मार्थ दत्त्वा, खयं दीक्षा लात्वा प्रतिपाल्य च मोक्षं गतः । ततः ते षडपि मित्राणि औषधसामग्री लात्वा मुनेः अनुज्ञा लात्वा चिकित्सां कतु लग्नाः।। तथाहि-पूर्व तैलेन सर्वस्मिन् अङ्गे अभ्यङ्गं चकुः । तस्य प्रभावेण साधुः अचेतनो जातः, कृमयश्च जीवा आकुलव्याकुलाः सन्तो बहिर्निर्गताः । ततो आनन्दो वैद्यो रत्नकम्बलेन साधुशरीरं आवृणोति स्म । तप्तः |
For Private and Personal Use Only