________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारिणां बालिकाना हस्ते मोदकान् दत्तान् दृष्ट्वा, अनामिका मातुःपाचे मोदकं याचते स्म। माता माह"तव पिता मोदकान् आनेतुं विदेशे गतोऽस्ति, स यावत् आयाति तावता त्वं अम्बरतिलकनामपर्वतात् काष्ठानि आनय ।" ततः सा रख्खं आदाय अश्रूणि मुश्चन्ती गता काष्ठग्रहणार्थ पर्वते । तत्र युगन्धरमुनेः केवलज्ञानं उत्पन्नमस्ति, व्यन्तरैमहिमा प्रारब्धास्ति । साऽपि तं नमस्कतुं गता। नत्वा धर्म च श्रुत्वा गुरुं प्राह"मम ईहशी दुःस्वाऽवस्था कथं!" गुरुः प्राह-“हे भद्रे! त्वया पूर्वभवे धर्मो न कृतः। धर्मात् एव मुख प्राप्यते । ततो धर्म कुरु ।" ततः तया सम्यक्त्वं श्रावकवतं च गृहीतं, उपाश्रये स्थिता श्रावकधर्म करोति । लोकाश्च 'धर्मिणी धर्मिणी' इति वदन्ति स्म । ततः सा तपांसि तत्वा, युगन्धरगुरोः पार्चे अनशनं चकार । ततो हे ललिताङ्ग! त्वं तत्र गत्वा तस्याः खकीयं रूपं दर्शय ।" ततो मश्रिवचनेन तत्र गत्वा, ललिताङ्गेन रूप दर्शितं । तया च तदीय-रूपमोहितया निदानं कृतं-"मम नपामभावात् ललितादेवस्य पनी भ्यास" इति । ततोऽनामिका मृत्वा खयम्यभादेवी जाता । तया समं ललिताङ्गदेवः मुख भुते स्म ॥ इति पञ्चमो भवः ॥५॥ ततो ललिताङ्गः ततः च्युत्वा, जम्बूद्वीपे पूर्वमहाविदेहे पुष्कलावतीविजये लोहार्गलपुरे सुवर्णजसो राजा, लक्ष्मी राझी, तयोः पुत्रो वनजङ्घनामा जातः । खयंप्रभादेवी च तत्रैव विजये पुण्डरीकियां नगर्या वज्रसेननामा चक्रवर्ती, तस्य पुत्री श्रीमतीनाम्नी जाता। एकदा यौवनावस्थायां चन्द्रशालायां स्थिता सती कस्यचित् साधो केवलज्ञानं उत्पन्नमभूत् , तत् वन्दनार्थ आगच्छतो देवान् दृष्ट्वा जातिस्मरणं ज्ञानं माप ।
For Private and Personal Use Only