________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीनेमिनाथस्य पञ्चदशशतानि (१५००)श्रमणाः सिद्धाः१४, पुन:श्रीनेमिनाथस्य त्रिंशच्छतानि (३००)साध्व्यः सिद्धाः १५ । पुनः श्रीनेमिनाथस्य द्विविधा अन्तकृतां भूमिः स्थानं, तत्र श्रीनेमितोऽष्टपुरुषयुगानि यावन्मोक्षमार्गः प्रवृत्तः, स युगन्तगडभूमिः १, अथ श्रीनेमिनाथस्य केवलज्ञानोत्पत्तेः अनन्तरं द्वादशवर्षेः मोक्षमार्गों न्यूदः, स पर्यायान्तकृवभूमिः २, श्रीभगवतः केवलज्ञानोत्पत्त्यनन्तरं राजीमती भगवतः समीपे गत्वा दीक्षां जग्राह । तदा भगवद्वन्दनागतेन श्रीकृष्णेन राजीमत्याः लेहकारणं पृष्टं, श्रीनेमिः नवभवान पाह-"प्रथमे भवे धनपतिनामा राजा, तदा धनवंतीनाम्नी भार्याऽभूत् १, ततो द्वितीये भवे सौधर्मे प्रथमदेवलोके मित्रत्वेन देवी जातौ २, तृतीये भवे चित्रगतिनामा विद्याधरो जातः, तस्य भार्या रत्नवती विद्याधरी ३, चतुर्थे भवे
पञ्चमब्रह्मदेवलोके मित्रत्वेन देवी जातौ ४, पञ्चमे भवे अपराजितनामा राजा जाता, तस्य भार्या प्रियमती *५, षष्ठे भवे एकादशे आरणनामदेवलोके मित्रत्वेन देवी जातो ६, सप्तमे भवे शङ्खनामा राजा जाता, तस्य
भार्या यशोमती ७, अष्टमे भवे मित्रत्वेन देची जातौ ८, नवमे भवे श्रीनेमिः राजीमती च ९, इति नवभवेषु लेहवत्त्वं । एकदा रथनेमिः चारित्रं लात्वा, जिनं नत्वा वजन् मेघवृष्ट्या बाधितो गुहायां प्रविष्टः, राजीमत्यपि अजानाना तत्र प्रविष्टा, कामातुरो रथनेमिः राजीमत्या प्रतियोधितो मोक्षं गतः। राजीमत्यपि चत्वारि वर्षशतानि (४००) गृहवासे स्थित्वा, वर्षमेकं छद्मस्थावस्थायां स्थित्वा, पञ्चवर्षशतानि (५००) केवलज्ञानं प्रतिपाल्य, नववर्षशतानि वर्षमेकं च सर्वमायुः पालयित्वा, नेमे पूर्व मोक्षं गता।" नेमेः पूर्व कथं मोक्षं गता?||
OVIES
For Private and Personal Use Only