________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं
कल्पलता व्या० ६ ॥। १८१ ।।
www.kobatirth.org
गौरवर्णे तु गौरत्वं अपगुणाय भवेत्, यथा-क्षीरं लवणं च अग्नौ दाते, हिमं च गलति तापेन, अतिगौरः कुष्ठी प्रोच्यते, गोधूमादिचूर्णं स्त्रीहस्तमर्दनं सहते ।" ततो राजीमती प्राह-" हे सख्यः ! नेदं वचनं श्रव्यं, अस्मिन् भवे नेमिरेव प्रियो, यदि तेन न परिणीता-हस्तेन हस्तो न गृहीतः, तदा तस्य हस्तं अहं मम मस्तके दापयिष्यामि दीक्षाग्रहणात् ।" सख्यः प्राहुः - "हे राजीमति ! साधु साधु त्वया प्रोक्तं, सुलब्धं तव जन्म ! यस्या ईदृशं शीलं त्रिभुवनराज्यादपि दुर्लभं ।” पुनरपि राजीमत्या श्रीगिरिनारगिरेः उपालम्भः प्रागपि कथापितः - "हे गिरिनारगिरे । स्वया नेमेः तत्राऽगतस्य स्थानं न दातव्यं, यथा तेन राज्यलक्ष्मीः त्यक्ता अहं च त्यक्ता तथा त्वामपि त्यक्त्वा यास्यति, अयं त्यजनखभावोऽस्ति, तवाऽपि न चिरस्थायी भावी ।" तदा गिरिनारेणापि राजीमत्याः प्रत्युत्तरं दत्तं - "हे राजीमति ! यदि मां त्यक्ष्यति तदा त्यजतु, परं तदीयस्थित्या, मम तु तीर्थत्वभवनेन महिमा भविष्यति, अथ च त्वमपि अत्रैव आगमिष्यसि ।" इत्यादि कविघटना | अथ राजीमती सुखेन शीलं पालयन्ती पितृगृहे तिष्ठति ॥
अथ भगवतो दीक्षा-कल्याणकं प्राह
अरहा अरिट्ठनेमी दक्खे जाव तिष्णि वाससयाइं कुमारे अगारवासमज्झे वसित्ता णं पुणरवि लोगंतिएहिं जी अकप्पिएहिं देवेहिं तं चैव सर्व्वं भाणियां, जाव दाणं दाइयाणं परिभाइचा ॥ १७२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
राजीमती
विलापः
भगवतो
दीक्षा
कल्याणकं
च
॥ १८१ ॥