________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कोटीभिः समनुगम्यमानः अनेकवाद्यनिर्घोषेषु जायमानेषु अनेकनरनारीभिः सहर्ष वीक्ष्यमाणो गतः श्रीनेमिः श्रीउग्रसेनराजधवलमन्दिरसमीपे । पृष्टः श्रीनेमिना सारथि:-"भोः कस्येदं धवलमन्दिरं" सारथिना प्रोक्तं"तव श्वशुरस्य-श्रीउग्रसेनराजस्य । तस्मिन् समये गवाक्षस्थया राजीमत्या सखी पृष्टा-“हे सखि! क मे प्राणपतिमि?" तदा तादृश्या महन्या विभूत्या आगच्छन् नेमिः सख्या दर्शिता, राजीमत्या विचारितं-"एतादृशं मम महभाग्यं वर्तते, यत् नेमिः मां परिणयति?" तस्मिन् क्षणे राजीमत्या दक्षिणाङ्गानि स्फुरितानि, जाता व्यग्रा । सख्या प्रोक्तं-“हे सखि! कथं हर्षस्थाने विषादः?" तदा राजीमती प्राह-“हे सखि ! अगिताकारैर्तापते, मम विघ्नं भवति।" सख्या प्रोक्तं-"मा अमङ्गलं वद, तोरणागमने का सन्देहः।" तस्मिन् प्रस्तावे श्रीनेमिना पशुपाटको दृष्टः, तत्र तत्र के के जीवाः क्षिप्ताः सन्ति । तथाहि-अज-एडक-गडरक-महिष-शशक-सूकर-शम्बरहरिण-रोझ-रीछ-प्रमुखाश्चतुष्पादाः। पुनः तित्तिर-मोर-पगला-सूयटा-हंस-सारस-सारिका-नील-चापचकोर-चक्रवाक-कौन-डीक-पारेवा-लाचक-चिडकला-होला-प्रमुखाश्च पक्षिणः सर्वेऽपि संकीर्णस्थाने एकत्र कृताः सन्ति । केचित् विरहिणः, केचित् क्षुधार्ताः, केपि तृषापीडिताः, महादुःखिनः आर्तस्वरं कुर्वन्तः तिष्ठ-1 न्ति । श्रीनेमिस्तान् तथाविधान दृष्ट्वा सारथिं प्राह-"भोः किमेतत् ? ।” सारथिना मोतं-“हे खामिन् ! तव श्वशुरेण-श्रीउग्रसेनेन तव गौरवनिमित्तं रक्षिताः सन्ति, तव गौरवकर्तव्यं एतैः मारितैः भावि।" श्रीनेमिः चेतसि अचिन्तयत्-"अहह अहो! इदं श्रोतुमपि अशक्य!, परं जीवप्राणापहारेण निजोत्सवकरणं नरक
For Private and Personal Use Only