SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र कल्पलता व्या०६ ॥१७९॥ पुनरपि रुक्मिणी माह-"रे वल्लभ देवर! यदि त्वं मुक्तिं वाञ्छसि तदापि गृहिधर्म समाश्रय, ततो धर्ममार्ग वसन्तोत्सवे संचर । यतः ऋषभादयः तीर्थङ्करा अपि विवाहं पूर्व कृत्वा, स्त्रीभिः सह भोगान् भुत्त्वा, मुक्तिमपि लेभिरे। भगवन्तं त्वं तु नवीन एव मुक्तिगामी उत्थितः।" ततः कोपं कृत्वा सत्यभामा प्राह-“हे सख्यः! अयं चेत् देवरो न प्रति कृष्णमानयति आत्मनां कथितं, तदा बलात्कारेण दृढं गृह्यते।" ततो लक्ष्मणाप्रमुखाः प्रोचुः-"अयं देवरः पूज्यो प्रेरितस्त्रीवर्तते, तेन न बलात्कारः कार्यः, विनयेन लेहेन च यदि मानयति तदा मानयतु ।" ततः सत्यभामादिभिः मिरभ्यर्थना सहासं नेमिर्भणित:-“हे देवर ! एवमभ्यर्थ्यमानोऽपि यदेकां अपि कामिनी न परिणयसि तत् ज्ञातं गृहभारकातरतया, तन्निर्वाहाभावेन च उद्यम मुक्त्वा स्थितोऽसि । परं त्वं यदि निर्वाहं कर्तुं न शक्तः तथापि तव । भ्राता श्रीकृष्णः त्रिखण्डभोक्ता समर्थोऽस्ति, यथा द्वात्रिंशत्सहस्रस्त्रीणां निर्वाहं करोति, तथा तव स्त्रिया अपि निर्वाहं करिष्यति।" तदा नेमेः किंचित् मुखे हास्यं समागतं । तदा सर्वाभिर्गोपीभिः हस्ते ताली दत्त्वा, भणितं "मानितो मानितो देवरेण विवाहः।" नेमिः निःस्पृहोऽपि दाक्षिण्येन मातृपितृप्रमुखाणां हर्षभङ्गभयेन च मौनमेव आश्रितः। ततः शिवादेवीप्रेरितैः श्रीकृष्णसमुद्रविजयप्रमुख भूपैः श्रीउग्रसेनगृहे राजीमती कन्या मार्गिता सहर्ष दत्ता च । अथ विवाहसामग्र्यां उभयत्र स्थाने जायमानायां सत्यां लग्नदिने श्रीनेमिः परिणयनार्थ अचा- ॥१७९॥ लीत् । अथ श्रीनेमिः कीदृशः। हस्तिस्कन्धारूढः, चामरैर्वीज्यमानो, धृतमस्तकछत्रः, आकाशे देवीभिः, धरित्र्यां |च सधवस्त्रीभिःगीयमानगुणग्रामः खभगिन्या उत्तार्यमाणलवणः समुद्रविजयादिभिः अनेकाभिर्यादवकुल-1 For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy