SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir स्वकीयभुजा वृक्षे शाखावत् कृता । पुनः येन पाञ्चजन्यनामा शङ्ख पूरितः । तस्मिन् पूरिते किं जातं ?, तदाहस्तम्भान उन्मूल्य हस्तिनो नष्टाः १, बन्धनानि ब्रोटयित्वा अश्वा नष्टाः २, नादेन विश्वं पधिरं जातं ३, धरा घडहडिता ४, नगरीवप्रश्चकम्पे ५, पर्वताः संचेलुः ६, समुद्रा उच्छलिताः ७, दिग्गजाः त्रासं पापुः ८, यादवा भूञ्छिता इव जाताः९, ब्रह्माण्डं भयविव्हलं जातं १०। पुनः मल्लावाटके हरिः हरिवत् भुजाशाखायां हिण्डोलितः । सतो हरेमनसि चिन्ता जाता-“नाऽहं वासुदेवः, मत्तो बलाधिकतया अपं वासुदेवः किं?" तदा आकाशे कुलदेवतावचनं जातं, तथाहि"राज्यं यो न समीहते गजघटा-रकारसंराजितं, नैवाकासति चारुचन्द्रबदनां लीलावती योङ्गनाम् ॥ यः संसारमहासमुद्रमथने भावी च मन्याचलः, सोऽयं नैमिजिनेश्वरो विजयते योगीन्द्रचूडामणिः ॥१॥" | ततः कृष्णस्य समाधानं जातं । अब एकदा शिवादेव्या नेमिकुमारं नीरागमिव ज्ञात्वा, गोपीनां प्रोक्तं-12 "वसन्तसमयोऽस्ति, नेमिकुमारं जलक्रीडार्थ लास्वा यान्तु यथा तथा सरागक्रीडया नेमिः विवाहं मन्यते तथा कर्तव्यं ।" ततः द्वात्रिंशत्सहस्राः सत्यभामाद्या जलक्रीडायां नेमि लात्वा गताः। तत्र खेच्छया नानाविधायां क्रीडायां क्रियमाणायां तत्र एका पाह-“हे देवर! तव भ्राता श्रीकृष्णः द्वात्रिंशत्सहस्रभार्याः परिणीतवान् । त्वं एकां अपि भार्या कथं न परिणयसि।” अन्या ग्राह-"हे सुभग ! एतादृशं यौवनं पुनः दुर्लभ कथं निरर्थकं गमयसि । मातृपितृप्रमोदाय एका वधू परिणय । वधूमुखदर्शनेनैव मातृपितृसन्तोषो भवेत्।" Fer Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy