________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं कल्पलता व्या०६
शर्केश्वरतीर्थस्य उत्पत्तिः
॥१७७॥
विराजमाना साक्षात् वर्गपुरीवत् दृश्यते । अथ सर्वेऽपि यादवा निर्भयाः सन्तो मुदिताः सन्तः तिष्ठन्ति । श्रीसमुद्रविजयादिभिः भाविनं वासुदेवं मत्वा कृष्णो राज्ये स्थापितः । अथ गते कियति काले रत्नकम्बलव्यवहारिणो वणिजो द्वारकायां रत्नकम्बलानि विक्रीय राजगृहे गताः। तत्र जीवयशां रत्नकम्बलं अल्पमूल्येन मार्गयन्ती प्रति ते माहुः-“वरं द्वारका यत्र कृष्णो राजा, यन्त्र अस्माकं रत्नकम्बलानां बहुमूल्यं समागतं" इति व्यतिकरण-वृत्तान्तेन यादवजीवनखरूपं ज्ञात्वा, कोपं कृत्वा जरासन्धः सर्व सैन्यं लात्वा, समागतः। ततः कृष्णोऽपि जरासन्धं समागच्छन्तं श्रुत्वा द्वारकातो निर्गत्य, पश्चचत्वारिंशद्योजनानि अतिक्रम्य सम्मुखः समागतः। पाडला-पञ्चासराग्रामसीनि चतुर्योजनान्तरे सैन्यद्वयमपि स्थितं, परस्परं युद्धं लग्नं, लक्षशो मनुष्या मृताः। ततो युद्ध कृष्णं अजेयं ज्ञात्वा, जरासन्धभूपेन जराविद्या मुक्ता । तया कृष्णस्य सैन्यं रुधिरं वमन् भूमौ पपात ॥ ततः श्रीनेमिनाथवचनेन श्रीकृष्णेन उपवासनयं कृत्वा पद्मावती आराधिता। तया प्रत्यक्षीभूय, घरणेन्द्रस्य देवालयात् भावितीर्थङ्करस्य "श्रीपार्श्वनाथस्य प्रतिमा आनीय दत्ता। तदा मङ्गलनिमित्तं हृष्टेन कृष्णेन शङ्खो वादितः, तत्रैव स्थाने बिम्बं स्थापितं । शङ्खपूरणात् "शङ्केश्वर" इति तीर्थ जातं ॥ पुनः * श्रीनेमिनाथेन इन्द्रेण मातलिसारथिना समं मुक्तो यो रथः तमारुह्य, शनादः कृतः। तेन जरासन्धसैन्यं निष्प्रतापं जातं ॥ ततो दिनत्रयं श्रीशङ्गेश्वरपार्श्वनाथप्रतिमालात्रोदकेन श्रीकृष्णस्य सैन्यं सज्जं जातं पुनः जरासन्धेन कृष्णाय स्वकीयं चक्रं मुक्तं, परं न प्रभवितं, ततः तदेव चक्रं गृहीत्वा, कृष्णेन मुक्तं । तेन
KOXOXOXOXOXOXO
॥१७७॥
For Private and Personal Use Only