________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं कल्पलता
व्या० ६
॥ १७६ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वारे चम्पक- पद्मोत्तरनामानौ गजौ हतवन्तौ । ततः कंसेन प्रोक्तं- "यः चाणूर - मौष्टिकनामानौ मल्लौ जयति तस्मै अहं स्वकीयां- खसारं सत्यभामां ददामि ।” ततः तद्वचनश्रवणेन उत्कण्ठिताभ्यां ताभ्यां सह युद्धं कुर्वाणाभ्यां तौ मल्लौ हतौ । ततो भीतेन कोपं कृत्वा कंसेन प्रोक्तं-"अरे ! एतौ कृष्णसर्पों केन पोषितौ ? ” केनापि प्रोक्तं- "नन्देन ।” कंसः प्राह-"अरे! आनीयतां स नन्दः यथा शिक्षां ददामि।” ततः कृष्णेन कंसो मचात् भूम्यां पातयित्वा हतः । उग्रसेनेन स्वपुत्री सत्यभामा त्रिंशतवर्षीया ३०० षोडशवार्षिकाय कृष्णाय परिणायिता । श्रीसमुद्रविजयरामकृष्णैः उग्रसेनो राजा काष्ठपञ्जरात् निष्कास्य, मथुराराज्ये स्थापितः । जीवयशा कंसपत्नी च रुदन्ती राजगृहनगरे खपितृश्रीजरासन्धपार्श्वे गत्वा जरासन्धनृपाय सर्वोऽपि कंस| मारणवृत्तान्तः कथितः । जरासन्धप्रतिवासुदेवेन प्रोक्तं- "हे वत्से ! स्वस्था भव, दुःखं मा कुरु, सर्व भव्यं भविष्यति ।" ततो जरासन्धनृपेण सोमकनृपो निजदृतो यादवपार्श्वे मुक्तः, कथापितं च- “भो यादव - राजानः ! भव्यं कृतं मम जामाता कंसो हतः, मम पुत्र्या वैधव्यं दत्तं, अथ ज्ञास्यते ततो यादव भूपाः सर्वेऽपि भयभ्रान्ता जाताः । ततः समुद्रविजयो राजा कृष्ण-बलभद्र - श्रीनेमिक्कुमारादिसहितः शौरिपुरनगरात् एकादशकुलकोटी, उग्रसेनो राजा सप्तकुलकोटीः मधुरात एवं अष्टादशकुलकोटी: यादवानां लात्वा, पश्चिमदिशि गन्तव्यं, यत्र सत्यभामा भानु-भ्रमरनामकं पुत्रयुगलं जनयति तत्र स्थातव्यं । तत्र भवतां जयो भावी ।" इति नैमित्तिकवचनं श्रुत्वा, चलिताः पश्चिमां दिशमुद्दिश्य । तस्मिन् प्रस्तावे कोपाक्रान्तं
For Private and Personal Use Only
कृष्णेन कंसहननं
।। १७६ ।।