SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्रं कल्पलता व्या० ६* ॥ १७५ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तव भर्तृहन्ता भविष्यति ।" [ इति श्रुत्वा सर्वो वृत्तान्तः कंसस्याग्रे प्रोक्तः ] तेन हेतुना कंसेन वसुदेवपार्श्वे | सप्त गर्भा याचिताः, वसुदेवेन अङ्गीकृतं दास्यामि । नुक्रमेण जाताः, ते भद्दिलपुरे नागो नाम श्रेष्ठी, तस्य भार्या सुलसा, तया पुत्रार्थ हरिणैगमेषी देव आराधितः । तेन प्रोक्तं- "त्वं अनजान् पुत्रान्-मृतानेव जनयिष्यसि, परं देवकी पुत्रान् जातमात्रान् आनीय प्रच्छन्नं तव दास्यामि ।” इति सुलसाया देवकीपुत्रा दत्ताः । यतो देवक्याः पूर्वभवे सपत्न्याः सप्त रत्नानि अपहृतानि आसन्, परमेकं रत्नं रुदन्त्याः तस्याः समर्पितं, तेन कृष्णस्य सुखं किमपि प्राप्तं । अथ सुलसापुत्राः षडपि मृता एव देवकीपार्श्वे मुक्ताः, ते सर्वेऽपि कंसेन शिलायां आस्फाल्य मारिताः । सप्तमे गर्भे जाते देवक्या सिंह १ सूर्य २ वह्नि ३ गज ४ ध्वज ५ विमान ६ पद्मसरोवराणि इति सप्त ७ स्वप्ना दृष्टाः । तेन देवक्याः यशोदायाः प्रोक्तं- "तवाऽपत्यं मम देयं, मम पुत्रः त्वया प्रच्छन्नं रक्षणीयः” इति । अथ कृष्णजन्मसमये कंसेन प्राहरिका विशेषतो मुक्ता अभूवन् । परं तेषां निद्रा समागता गर्भप्रभावात् । स्वरः शब्दं चकार, तदा खरमेषोऽपि तव पुत्र इति श्रवणात् न शब्दं चकार । वसुदेवः कृष्णं लात्वा निर्गच्छन् प्रतोलीकपाटोद्घाटने उग्रसेनेन "कोऽसि ?” इति पृष्टः । वसुदेवेन प्रोक्तं- "मौनं कुरु, यः काष्ठपञ्जरात् त्वां निष्कास्य राज्ये स्थापयिष्यति, सोऽयं ।” ततो वसुदेवः कृष्णं यशोदाया दत्तवान् । यशोदा पुत्रीं च देवकीपार्श्वे मुमोच । प्रभाते कंसः तां सुतामपि छिन्ननासां चकार । अथ कृष्णो नन्दगोकुलीगृहे वर्धते देवकी पुत्रस्नेहात् For Private and Personal Use Only श्रीकृष्णजन्म ।। १७५ ।।
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy