________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पाणिग्रहणं चक्रे । नानाविघाश्च रूपपरावर्तनादिविद्या शिक्षिताः। ततः पुनः व्याधुव्य शौरिपुरनगरे समागतः, परं चामनं कुन्जं च रूपं कृतं । तस्मिन् समये च तत्र रोहिणीखवरा मारब्धोऽस्ति । अनेकेषु राजसु तत्र स्थितेषु प्रान्तस्थाने बामनोऽपि मर्दलं वादयन् स्थिता, रोहिणी मौलं वसुदेवरूपं पश्यति, अन्ये वामनमेव । ततो रोहिणी सर्वम्पान् अवगणय्य बामनस्य कण्ठे वरमालां चिक्षेप । वामनो रोहिणी लात्वा निःसृतः।। समुद्रविजयादयो रुष्टा:-"कथं असासु सत्सु अयं वामनः कन्यां लात्वा याति।” परस्परं युद्धं लग्नं । ततो वसुदेवेन विमृष्टं-"न युक्तं भ्रात्रा समं युद्धकरणं।" ततः समुद्रविजयाप वाणो मुक्तः। तत्र वाणे लिखितमस्ति-IX "वसुदेवः प्रणमति" इति । ततोऽक्षरवाचनानन्तरं समुद्रविजयेन ज्ञातं-"अयं मम भ्राता, परं केनापि कार-14 न वामनरूपं कृतमस्ति । ततः सर्वेऽपि मिलिताः, वसुदेवस्य रोहिणी परिणायिता। कालेन गज १ सिंह २ चन्द्र ३ समुद्र ४ खमचतुष्टयसूचितः पुत्रो जातः, तस्य 'राम' इति नाम । ततः कंसेन खमित्रलेहात् वसुदेवः स्वपुर्या-मथुरायां समानीतः। पश्चात् वसुदेवस्य मृतिकावतीनामनगरीस्वामिनो देवकराजस्य पुत्री देवकी कसेन परिणायिता, गोकोटिसहितं नन्द-यशोदापदानं करमोचने कृतं । एकदा जीवयशा कंसपत्नी स्वस्कन्धे देवकी स्थापयित्वा गर्वेण वृत्यन्ती क्रीडति । तस्मिन् समये कंसस्य लघुनाता अतिमुक्तको मुनिः समेतः, जीवयशा पाह-"एहि देवर ! आवाम्पां रम्पते।" कण्ठे लगित्वा उन्मत्ता सती उपसर्ग कुर्वती न निवर्तते । तदा अति-81 मुक्तकेन तस्या गर्वोत्तारणार्थ प्रोक्तं-"रे मूर्खे। किं नृत्यसि ?, अस्याः-देवक्या सप्तगर्भमध्ये एको गर्भः
कल्प०३०।
For Private and Personal Use Only