________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निवार्य, वसुदेवः कंसेन सहसैन्यः चचाल । तत्र गत्वा अग्रेगामिना कंसेन सिंहराजा बध्वा वसुदेवाय समर्पितः । वसुदेवेन च जरासन्धप्रतिवासुदेवाय समर्पितः । ततो वसुदेवाय दीयमाना जीवयशा, ज्ञातपरमार्थेन वसुदेवेन कंसेन स सिंहराजा बद्ध इति कंसाय परिणायिता । अथ कंसो जीवयशां भार्या परिणीय पितृवैरं स्मरन् मथुराराज्यं लात्वा, प्रबलसेनया सह मथुरायां गत्वा, स्वपितरं उग्रसेनं काष्टपञ्जरे निःक्षिप्य स्वयं राज्यं करोति स्म । तस्मिन् समये अतिमुक्तकः कंसस्य लघुभ्राता पितृदुःखात् वैराग्येण दीक्षां लली । अस्मिन् प्रस्तावे वसु| देवः शौरिपुरनगरे स्त्रीवल्लभः कुमारपदर्थी भजमानः तिष्ठति । स्त्रीवल्लभत्वं कथं उपार्जितं ? तत्र पूर्वभवो यथा-नन्विषेणनामा कोऽपि एकः कुलपुत्रक आसीत् । स कीदृक् ? । कुतीर्थी इव कुदर्शनः स्थालीबुञ्जमिव श्यामः, बिडालवत् पिञ्जरनेत्रः, गणेश इव लम्बोदरः, हस्ती हव दन्तुरः, उष्ट्र इव लम्बोष्ठः, वानर इव शूर्पकर्णः, कुष्ठरोगी हव चिपिटधाणः, त्रिकवत् त्रिकोण मौलिः । किं बहुना, कुरूपाणां दृष्टान्तीभूतः तस्य मातापितरौ मृतौ । ततो मातुलगृहे कार्याणि कुर्वन् युवा जातः, ततः परगृहभञ्जिना लोकेन तस्य मनो भनं, “मो। किं वृथा दासवत् कार्याणि कुरुषे ? परं मातुलः त्वां परिणाययति अपि न ?” ततो भन्नः रुष्टः सन् कार्याणि न करोति, न परिणायित इति हेतोः । ततो मातुलेन बहुस्थानेषु कन्या मार्गिताः परं नन्दिषेणं न कापि परिण यति कुरूपत्वात्, ततो निजपुत्र्योऽनुक्रमेण अभ्यर्थिताः परं ताः सर्वा अब्रुवन् -- “ विष भक्षण - पाशीग्रहणप्रमुखं करिष्यामः परं न चैनं परिणयिष्यामः ।" ततो वैराग्यात् नन्दिषेणेन दीक्षा गृहीता । सर्वसाधूनां मया
For Private and Personal Use Only