________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं
कल्पलता
व्या० ६ ०
॥ १७३ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धारिण्याश्च स्वपतिहृदयमांस भक्षणदोहदो जातः । स दोहदः मन्त्रिभिः यथाकथञ्चित् पूरितः । जन्मानन्तरं नाममुद्रिका - पत्रिकाभ्यां सहितं पुत्रं कांस्यपेटायां प्रक्षिप्य राज्ञा यमुनायां पेटा वाहिता । सा कांस्यपेटी वहन्ती शौरिपुरनगरे गता । तस्मिन् समये प्रातःकाले शौचार्थम् अगतेन रसवणिजा सुभद्रनान्ना सा पेटा आगच्छन्ती गृहीता । बहिरानीय उद्घाटिता । मुद्रिकां पत्रिकां च भव्यस्थाने रक्षयित्वा मध्यस्थं बालकं स्वप्रियायाः समर्पयामास । तस्य नाम 'कंस' इति दत्तं स च कंसः प्रवर्धमानो राजवीर्यत्वात् रममाणो डिम्भान् कुट्टयति । ततो डिम्भमातृपित्रादयः कंसमातापित्रोः उपालम्भं ददति । कंसश्च शिक्षां न मन्यते । ततः सुभद्रेण च वसुदेवकुमारस्य सेवार्थं समर्पितः । अथ कंसो वसुदेवसेवां कुर्वन् तिष्ठति । अस्मिन् प्रस्तावे राजगृहनगरे जरासन्धनामा प्रतिवासुदेवो राज्यं पालयति । तस्य सर्वेऽपि यादवराजानः सेवकाः सन्ति । तस्य जरासंघस्य जीवयशानाम्नी पुत्री वर्तते सा राज्ञो जीववत् प्रिया । एकदा राज्ञो नैमित्तिकस्य जीवयशाजन्मपत्रिका दर्शिता - "एषा कीदृशी भविष्यति ?” इति पृष्टं च । ततो नैमित्तिकेन प्रोक्तं- "सत्यं वक्ष्यामि, न रोषः कार्यः । एषा परिणीता सती उभयकुलक्षयकारिणी भविष्यति ।" ततो राज्ञा प्रच्छन्ना वार्ता रक्षिता । तस्मिन् समये यादवराजानो दीप्तिमन्तः सन्तः जरासन्धस्य आज्ञां सम्यक न मन्यन्ते । ततो जरासन्धेन समुद्रविजयनृपस्य आज्ञा दत्ता - " यदुत वैताव्यपर्वतपार्श्वे सिंहपुरे नगरे सिंहनामा राजास्ति । सः अस्मदाज्ञां न मन्यते, तं बध्वा यः समानयति तस्मै अहं जीवयशापुत्रीं नगरमेकं च ददामि ।" ततः तद्बन्धनार्थ चटन्तं समुद्रविजयं
For Private and Personal Use Only
कंसेन सह
जीव
यशायाः
परिणयः
॥ १७३ ॥