________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
पक्षे एतावता श्रावणसुदि पञ्चम्यां नवमासेषु प्रतिपूर्णषु सार्घससदिनाधिकेषु व्यतिकान्तेषु चित्रानक्षत्रे चन्द्रेण समं योगं वर्तमाने आरोग्या-कष्टरहिता शिवा आरोग्यं पुत्रं अजीजनत् । जन्मोत्सवः सर्वोऽपि दिकुमारी-चतुःपष्टीन्द्रकृतः श्रीमहावीरदेवाधिकारवत् अत्रापि वाच्यः । पुनः स्थितिपतिकादिकर्तव्यता समुद्रविजयामिलापेन वाच्यः । रिष्टरवमयं नेमिचक्रं आकाशे उत्पतन् माता शिवादेवी खमे अद्राक्षीत् इति रिष्टनेमिः । ततो अपश्चिमशब्दवत् नपुर्वत्वे अरिष्टनेमिरिति नाम दत्तं । कुमारस्तु अपरिणीतत्वात् । अथ एकदा पालनस्थे भगवति इन्द्रेण नेमेः बलस्य वर्णनं कृतं, तदा असहमानाः केपि सुरा प्रलं परीक्षितुं आगत्य, पालनस्थं भगवन्तं अपजहुः । योजनानां सपादलक्षे अतिक्रान्ते श्रीभगवान् अवधिज्ञानेन सुरविकारं ज्ञात्वा, बलं प्रयुले स्म । ततः ते मुराः श्रीभगवतो बलं असहमाना अघस्तात् पेतुः, शतयोजनी धरित्रीमध्ये गताच । तत इन्द्र आगन्य, अनुकम्पया सुरान् मोचयित्वा, प्रभुं पालने मुक्तवा स्तुत्वा अपराधं च क्षामयित्वा स्वर्ग गतः। अथ एकदा मथुरायां उग्रसेनो राजा बहिः क्रीडायं गतोऽभूत् । तेन तत्र कोऽपि तापसो दृष्टा, पारणार्थ निमन्त्रय, राजा खगृहे गतः । परं राज्ञो बहुराजकार्यव्यग्रत्वेन पारणा-कारापणं विस्मृतं, पुनरपि द्वितीयमासक्षपणे तथैव निमन्त्रितः, तथैव विस्मृतं । पुनः तथैव तृतीयवारेऽपि निमन्त्रितः, तथैव विस्मृतं ।। ततः तापसेन कोपाक्रान्तेन निदानं चक्रे-“यदुत चेत् मत्तपः फलं] प्रमाणं तदा अस्य उग्रसेनराजस्य दुःख-| दायको अहं स्याम्" इति । ततः स तापसो मृत्वा, उग्रसेनराजस्य भार्या धारिणी तस्याः कुक्षौ अवतीर्णः ।
For Private and Personal Use Only