________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं कल्पलता व्या० ६
॥ १६९ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुव्रतप्रमुखाः श्रमणोपासकाः श्रावका एक लक्षं चतुःषष्टिश्च सहस्राः (१,६४००० ) अभूवन् । पुनः श्रीपार्श्वनाथस्य सुनन्दाप्रमुखाः श्राविकाः त्रीणि लक्षाणि सप्तविंशतिश्च सहस्राः (३,२७०००) अभूवन् । पुनः श्रीपार्श्वनाथस्य सार्धानि सप्तशतानि (७५०) चतुर्दशपूर्विणः केवलिन इव अभूवन् । पुनः श्रीपार्श्वनाथस्य चतुर्दशशतानि ( १४०० ) अवधिज्ञानिनः । पुनः दशशतानि (१०००) केवलज्ञानिनः । पुनः एकादशशतानि (११००) वैक्रियलब्धिधराः । पुनः षट्शतानि ( ६०० ) ऋजुमतयः साधवः । पुनः दशशतानि ( १००० ) सिद्धानि साधूनां । पुनः विंशतिशतानि (२०००) साध्वीनां सिद्धानि । सार्थानि सप्तशतानि ( ७५० ) बिपुलमतीनां सिद्धानि । ऋजुमति- विपुलमतीनां विशेषः पूर्व उक्तोऽस्ति । षट्शतानि (६००) वादिनां । पुन: द्वादशशतानि ( १२०० ) अनुत्तरोपपातिनां साधूनां । पुनः श्रीपार्श्वनाथस्य द्विविधा अन्तकृतां केवलिनां भूमिः, स्थानं= युगान्तकर भूमिः पर्यायान्तकर भूमिश्च । तत्र श्रीपार्श्वनाथात् आरभ्य चतुर्थं पुरुषयुगं यावत् सिद्धिगमः प्रवृत्तः स युगान्तकर भूमिः । अथ च श्रीभगवतः केवलज्ञानोत्पत्तेः पश्चात् त्रिषु वर्षेषु सिद्धिगमारम्भो जातः, स पर्यान्तकरभूमिः ॥
अथ च श्रीभगवतः कदा निर्वाणकल्याणं जातं ?, तत्राह
तेणं काणं तेणं समएणं पासे अरहा पुरिसादाणीए तीसं वासाई अगारवासमझे वसित्ता
For Private and Personal Use Only
भगवतो निर्वाण
कल्याण
समयः
॥ १६९ ॥