________________
Shri Mahavir Jain Aradhana Kendra
कल्प ० २९
www.kobatirth.org
इकारस सया वेवियाणं, छसया रिउमईणं, दस समणसया सिद्धा, वीसं अजियातया सिद्धा, अट्टमसया विउलमईणं, छसया वाईणं, बारस सया अणुत्तरोववाइयाणं ॥ १६६ ॥ पासस्स णं अरहओ पुरिसादाणीयस्स दुविहा अंतगडभूमी हुत्था, तं जहा-जुगंतगडभूमी परियायंतगडभूमी य, जाव चउत्थाओ पुरिसजुगाओ जुगंतगडभूमी, तिवासपरिआए अंतमकासी ॥ १६७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
एतस्य आलापकस्य अर्थस्तु सुगम एव, पूर्वमपि व्याख्यातश्च । परं अर्थयोजनामात्रत्वं प्रदश्यते - " पासस्स णं अरहओ" श्रीपार्श्वनाथस्य अष्टौ गणा एकवाचनिकायतिसङ्घा अभूवन्, अष्टौ च गणधराः, तेषां गणानां नायकाः सुरयोऽभूवन् । आवश्यके तु दश गणधरा उक्ताः, इह स्थानाङ्गे च अष्टौ ततो द्वौ सप्तमाष्टमगणघरी अल्पायुष्कत्वात् नोक्तौ इति संभाव्यते । यतः श्रीपार्श्वनाथचरित्रे दशगणधर सम्बन्धेषु सताष्टमगणधरौ जय १ विजय २ नामानौ श्रावस्ती नृपपुत्रौ रात्रौ तथाविधखनविशेषोपलम्भनेन स्वकीयं आयुः अल्पं ज्ञात्वा, दीक्षां जगृहतुरिति । गणधरनामानि यथा - शुभः १ आर्यघोषः २ वाशिष्ठः ३ ब्रह्मचारी ४ सोमः ५ श्रीधरः ६ वीरभद्रः ७ यशः ८ इति । पुनः श्रीपार्श्वनाथस्य आर्यदिन्नप्रमुखाः षोडशभ्रमणसहस्राः (१६००० ) अभूवन् । पुनः श्रीपार्श्वनाथस्य पुष्पचूलाममुखा अष्टत्रिंशत् आर्यासहस्राः (३८०००) अभूवन् । पुनः श्रीपार्श्वनाथस्य
For Private and Personal Use Only