________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
कल्पसूत्रं हस्तिनः परं भगवान् न क्षोभं प्राप्तः, मर्यादां समुद्र इव नाऽमुञ्चत् । ततो विशेषेण क्रुद्धः सन् चतुर्दिक्षु कल्पलता कालरात्रिसदृशान् मेघान् विकुर्वितवान् । ततो महावातान्, ततो विद्युज्झात्कारान् ततो गर्जारवान्, ततः व्या० ६ ० प्रलयकालवत् वर्षितुं लग्नो मुसलधाराभिः क्षणात् पानीयपूरो भगवतः कण्ठं यावत् समागतः, तथापि श्रीपार्श्वो नासिकाग्रे दत्तदृष्टिः मनागपि न चचाल । तस्मिन् प्रस्तावे कम्पितासनो धरणेन्द्रो पद्मावतीप्रमुखाभिः ॥ १६७ ॥ अग्रमहिषीभिः सार्धं समागत्य प्रणम्य च श्रीपार्श्वनाथं स्वकीयमस्तकोपरि कृत्वा प्रभोरुपरि फणान् विस्तारयामास । प्रभोर आकाशे पद्मावतीप्रमुखा अग्रमहिष्यो वेणुवीणादिवन्धुराणि गीतसृत्यानि चक्रुः । ततो धरणेन्द्रोऽवधिज्ञानेन मेघमालिनं वर्षन्तं ज्ञात्वा कुपितोऽब्रवीत् - "अरे । किमिदं त्वया आरब्धं १, रे दुर्मते ! अनन्तशक्तिरपि श्रीभगवान् कृपावान् सहिष्यते, परं अहं तद्भक्तो न सहिष्ये । रे पापिष्ठ 1 श्रीभगवतः सदुपदेशोऽपि तव वैराय जातः !, उषरपृथिव्यां मेघवर्षणं लवणाय यथा स्यात् ।। ततो मेघमाली भयभ्रान्तः प्रभोः शरणे प्रविष्टः । प्रभुं प्रणम्य खापराधं क्षामयित्वा 'नः पुनः करिष्यामि इत्युक्तवा च स्वस्थानं गतः । इन्द्रादयोऽपि स्वस्थानं जग्मुः । शिवापुर्वी इन्द्रो दिनत्रयं प्रभोः शीर्षे फणाछत्रं दधौ । ततः सा नगरी "अहिच्छत्रा" इति प्रसिद्धिं गता ।
अथ कीदृशस्य सतो भगवतः केवलज्ञानं समुत्पन्नं १, तत्राह -
तएण से पासे भगवं अणगारे जाए ईरियासमिए भासासमिए जाव अप्पाणं भावेमाणस्स
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
मेघमालि
कृत
उपसर्गः, किवलज्ञानीत्पचित्र
॥१६७॥