________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
तत्र स्थाने प्रकटीकृता, करकण्डनुपेण भक्त्या पूजिता, चैत्यमपि तत्र कारितं । तत्र स्थाने 'कलिकुण्डनाम तीर्थ जातं । स हस्ती मृत्वा तत्र चैत्ये व्यन्तरोऽधिष्ठायकोऽभूत् १॥ अथ एकदा राजपुरनगरस्वामी ईश्वरनामा राजा x अभूत्, तेन श्रीपार्श्वनाथं कायोत्सर्गस्थं दृष्ट्वा मूळ प्राप्ता, जातिस्मरणं ज्ञानं उत्पन्न । मश्रिणा पृष्टं खकीयं पूर्वभवं माह-"वसन्तपुरनगरे एकः कुष्टी प्रामणोऽभूत्, स च दुःस्वात् गङ्गाना मरणार्थ पतन चारणेन ऋषिणा रक्षितः प्रतियोधितश्च । एकदा स कुष्ठी चैत्ये गत्वा प्रत्यहं प्रणमन् पुष्कलिश्रावकेण दृष्टः। ततो मुनिपाधैं गत्वा पुष्कलिश्रावकेण पृष्टं-"एतस्य कुष्ठिनः चैत्यागमने दोषो न पा १।” मुनिना प्रोक्तं-"रात् जिनं प्रणमतो न कोऽपि दोषः। पुनरपि अयं कुष्ठी ब्राह्मण आगामिभवे राजपुरे नगरे ईश्वरनामा राजा भविष्यति । पुनरपि श्रीपार्श्वनाथं कायोत्सर्गस्थं दृष्ट्वा जातिस्मरणज्ञानं प्राप्स्यति । स कुष्ठी ब्राह्मणोऽहं जातः।” ततः ईश्वरनृपेण भक्त्या प्रभोः प्रसादः कारितः, मध्ये प्रतिमा च स्थापिता । ततः तत्र 'कुकुटेश्वरनाम तीर्थ प्रसिद्धं जातम्।
अथ श्रीभगवतो मेघमालिदेवेन कृत उपसर्गों व्याख्यायते । अथ एकदा श्रीभगवान् विहरन् नगरपार्श्ववतिनं तापसाश्रमं समाजगाम । तस्मिन् प्रस्तावे सूर्यश्च अस्तं गतः । भगवान् वटवृक्षस्य अधस्तात् कूपस्य समीपे मेरुबत् निष्पकम्पः कायोत्सर्गे स्थितः, रात्री तदवसरे मेघमाली अधमदेवः पूर्ववैरं स्मरन कोपाकान्तो भगवन्तं उपसर्गयितुं समागतः । पूर्व तेन वेताला विकुर्विताः, ततः सिंहाः, ततो वृश्चिकाः, ततः सर्पाः, ततो
For Private and Personal Use Only