________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तेसीई राइंदियाइं विइक्ताई, चउरासीइमे राइदिए अंतरा वद्रमाणे जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले, तस्स णं चित्तबहुलस्स चउत्थीपक्खेणं पुषण्हकालसमयंसि धायईपायवस्स अहे छट्टेणं भत्तेणं अपाणएणं विसाहाहिं नक्खत्तेणं जोगमुवागएणं झाणंतरिआए वद्वमाणस्स अणंते अणुत्तरे निवाघाए निरावरणे जाव केवलवरनाणदंसणे समुप्पन्ने जाव जाणमाणे पासमाणे विहरइ ॥ १५९ ॥ अथ अर्थलापनिका-"तएणं से पासे” ततः श्रीपार्श्वनाथो भगवान ईर्यास मितो जातो भाषासमित एषणासमित एवं पञ्चसमितिभिः समितः, तिसृभिः गुसिभिः गुप्तो जातः । एवं श्रीमहावीराधिकारे यः साधुवर्णकः मोका सा अत्रापि ज्ञेयः । तथा श्रीभगवतो दीक्षानन्तरं श्यशीतिदिनानि (८३) व्यतिक्रान्तानि । चतुरशीतितमस्य दिनस्य अन्तरा वर्तमानस्य ग्रीष्मकाले प्रथमे मासे प्रथमे पक्षे एतावता चैत्रवदिचतुर्थीदिने पूर्वाहकालसमये धातकीवृक्षस्य अधः षष्ठेन तपसा, क्वचित् अष्टमेन तपसा अपानकेन विशाखानामनक्षत्रे चन्द्रेण सह योग वर्तमाने ध्यानान्तरे वर्तमानस्य केवलज्ञानं केवलदर्शनं च समुत्पन्न । तेन सर्व भगवान् जानन् पश्यन् विहरति । देवैः समवसरणं विरचितं, चतुर्विधसङ्घस्य स्थापना कृता ।
For Private and Personal Use Only