________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अरवीमध्ये सरोवरतीरे तपस्यां कुर्वन् कायोत्सर्गे स्थितः। मरुभूतिजीवोऽपि हस्ती सरोवरे नीरपानार्थ आगतः, तं हस्तिनं मदोन्मत्तं क्रुद्धं दृष्ट्वा, यात्रार्थ आगतः, तत्र स्थितः सङ्घः पलायितः। ततोरविन्देन राजर्षिणा अवधिज्ञानेन उपलक्ष्य हस्ती प्रतियोधित उपशमं गतः, । जातिसरणं ज्ञानं उत्पन्नं, आवकब्रताभिलाषी सन् मुनिं प्रणम्य, हस्ती स्वस्थानं गतः । मुनिरपि यात्रार्थ चलितः। अथ एकदा मरुभूतिजीवो हस्ती उष्णकाले तृषातः सरोवरे पानीयपानार्थ प्रविष्टः। तदवसरे कमटजीवेन कुर्कुटसण कुम्भस्थले दष्टो मृतः ॥ इति द्वितीयो भवः ॥२॥ ततो जैनधर्मवासनया मरुभूतिजीवो हस्ती सहस्त्रारे अष्टमे देवलोके देवो जातः । कुर्कुटसर्पो हस्तिघातपापेन पञ्चमे नरके नारकी जातः ॥ इति तृतीयो भवः ।। ३॥ ततो मरुभूतिजीवः ततःच्युत्वा किरणवेगनामा विद्याधरो राजपुत्रो जातः, स च रूपलावण्यादिगुणसुन्दरः प्राप्तरा|ज्योऽपि वैराग्यात् कुलक्रमागतं राज्यं त्यक्त्वा, दीक्षां जग्राह । स च प्रतिग्राम विहरन एकदा पर्वतगुहायां स्थितः । तदानीं कमठजीवोऽपि पञ्चमनरकात् निःमृत्य, तत्र सर्पः समुत्पन्नोऽभूत् । स सो मुनिं दृष्ट्वा पूर्ववैरात् क्रोधेन दशति स्म, मुनिः विषाक्रान्तोऽपि समाधिना मृतः ॥ इति चतुर्थो भवः ॥४॥ ततो मरुभूतिजीवो द्वादशे अच्युतनानि देवलोके देवो जातः । सर्पो मृत्वा पुनः पञ्चमे नरके नारकी जातः ॥ इति पञ्चमो भवः ॥५॥ ततो मरुभूतिजीवो द्वाविंशतिसागरोपमायुःक्षयात् द्वादशदेवलोकात् च्युत्वा, पश्चिममहाविदेहे वज्रनाभनामा राजा जातः । सोऽपि वैराग्यात् कुलक्रमागतं राज्यं परित्यज्य, दीक्षा ललौ। ग्रामनगरादिषु
For Private and Personal Use Only