________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
IMI
कल्पसूत्रं कल्पलता व्या०६
॥१६२॥
विचरन् मिलपलयां गतः। तत्र कमठजीवोऽपि संसारं भ्रान्त्वा मिल्लत्वेन उत्पन्नोऽस्ति । संसारभ्रमणं विना पार्श्वनाथख पञ्चसागरोपमान्तरं न मिलति । यतः श्रीपार्श्वनाथचरित्रेऽपि भवक्रमादिति हि प्रोक्तं, तथाहि
दशमवार "अहिजीवोऽपि नरका-दुद्वत्याभूद्भवक्रमात् [भवं भ्रमन् ] । ज्वलनाद्रौ सुकच्छस्थे-भिल्लो नान्ना कुरङ्गका ॥१०९५॥" [स. ३] इति तेन भिल्लेन आखेटकार्थ गच्छता निजगृहात् निर्गतेन प्रथम स साधुः सम्मुखं आगच्छन् दृष्टः, “अपशकुन" इति विचार्य, बाणेन हतो मृतः॥ इति षष्ठो भवः॥ ६॥ ततः साघुः समाधिना मृत्वा, मध्यमवेयके देवो जातः। भिल्लोऽपि महापापी ससमनरके उत्पन्नः ॥ इति सप्तमो भवः ॥७॥ अथ मरुभूतिजीवो देवो मध्यमवेयकात् च्युत्वा, महाविदेहक्षेत्रे सुवर्णयाहुनामा चक्रवर्ती जातः । षट्खण्डराज्यं पूर्व भुक्तवा, प्रान्ते वैराग्यात् राज्यं त्यक्त्वा दीक्षा जग्राह । चतुर्थषष्ठाष्टमादितपः कुर्वन् शितिस्थानकानि सेवित्वा, गिरिगहने विहरति स्म । तत्र तदवसरे कमठजीवोऽपि यो भिल्लः अभूत् स नरकात् निःसृत्य, सिंहो जातोऽस्ति । स सिंहः तं साधुं दृष्ट्वा पूर्ववैरात् क्रोधेन विदारितवान् ॥ इति अष्टमो भवः ॥ ८॥ ततः साधुः समाधिना मृत्वा प्राणते दशमे देवलोके देवो जातः । साधुविदारकः सिंहस्तु चतुर्थे नरके नारकी जातः ॥
॥१६ ॥ इति नवमो भवः ॥९॥ अथ मरुभूतिजीवो दशमदेवलोकात् च्युत्वा, श्रीपार्श्वनाथो जातः । कमठजीवः * कठो नाम तापसो जातः । द्वयोः संवन्धः सूत्रे वृत्तौ च अग्रे कथयिष्यते इति दशमो भवः ॥१०॥
For Private and Personal Use Only