________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
जं स्यणिं च णं समणे भयवं महावीरे कालगए, जात्र सङ्घदुक्खप्पहीणे तं रयाणि चणं नव महई नव लेच्छई कासीकोसलगा अट्ठारसवि गणरायाणो अमावासाए पाराभोयं पोसहोववासं, पट्टविंसु, गए से भावुजोए, दनुज्जोअं करिस्सामो ॥ १२८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या - "जं रयणिं च णं समणे" तस्यां रात्रौ काशिदेशस्य राजानो मल्लकिज्ञातीयाः नव, तथा कोशलदेशस्य राजानो लेच्छ किज्ञातीयाः नव, ते कार्यवशात् गणमेलापकं कुर्वन्ति इति गणराजानो अष्टादश ये चेटकमहाराजस्य श्रीभगवन्मातुलस्य सामन्ताः ते तस्यां अमावास्यां पारं पर्यन्तं भवस्य आभोगयति आलोकयति पश्यति यः सः पारालोकः संसारसागरपारप्रापणप्रवणः तं, अथवा पारं पर्यन्तं यावदालोको विस्तारो यस्य सः पारालोको अष्टमाहरिकः, प्रभातं यावत् संपूर्ण इत्यर्थः, तं तथाविधं पौषधोपवासं पौषधयुक्तोपवासं "पट्टर्विसु त्ति" प्रस्थापितवन्तः = कृतवन्तः । कचित् "वारा भोए" इति पाठः, तत्र द्वारं आभो ग्यते = अवलोक्यते यैस्ते द्वारा भोगाः प्रदीपाः तान् कृतवन्तः । आहारत्यागपौषधरूपं उपवासं अकार्षुः इति च व्याचक्षते । एतदर्थानुपाति च उत्तरसूत्रं गतः स भावो ज्ञानरूपो - ज्ञानज्ञानिनोः कथंचित् अभेदात् ज्ञानमयो उद्योतो भगवान् गतो-निर्वाणं, अतो द्रव्योयोतं प्रदीपरूपं करिष्यामः इति हेतोः तैः प्रदीपाः प्रवर्तिताः ततः प्रभृति दीपोत्सवः संवृत्तः । कार्तिक शुक्लप्रतिपदि च देवैः केवलमहिमा चक्रे, अतः तत्रापि
For Private and Personal Use Only