SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्रं कल्पलता व्या० ५ ।। १५४ ।। www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गौतमस्य गोत्रेण इन्द्र भूतेर्नाम्नः ज्ञातज्ञे - श्रीमहावीरविषये “पिज्जयंधणेत्ति" स्नेहबंधने व्यवच्छिन्ने सति = त्रुटिते सति केवलं उत्पन्नं, शेषं सुगमं २९ । अत्रायं गौतमसंबन्धः - भगवता स्वनिर्वाणसमये देवशर्मणः प्रतिबोधार्थ कापि गौतमो मुक्तः, तं प्रतिबोध्य पश्चादागच्छन् देवसंनिपातं दृष्ट्वा उपयोगेन खामिनिर्वाणं ज्ञात्वा वज्राहत इव शून्यचित्तः क्षणं तस्थौ । अब्रवीच - "हे वीर ! त्वयि सूर्येऽस्तमिते अद्य मिथ्यात्वरूपं तिमिरं प्रसरति, कुतीर्थिकधूकाः गर्जन्ति, दुर्भिक्षडमरवैरादिनिकराः प्रादुर्भवन्ति । हे वीर ! त्वं विना भरतक्षेत्रं राहुग्रस्तं चन्द्रं आकाशमिव विध्यातप्रदीपं गृहमिव जातं ।। हा हा ! वीर, त्वया किं कृतं । यत ईदृशे अवसरे अहं दूरीकृतः, किमहं आडकं मण्डयित्वा, बालकवत् तवाञ्चले अलगिष्यम्, अथवा केवलज्ञानभागं अमार्गविष्यम्, किंवा त्वयि अहं कृत्रिमरागः अभविष्यम्, किंवा मुक्तौ सांकीर्ण्य, किंवा तव अणखकरोऽभवं, किंवा तव भारोऽभवम् ? । हे वीर ! कथं विस्मारितोऽहम् ? अथ कस्याग्रे संदेहान् संप्रये ? । को मां गोयमा इति वादयिष्यति ? । हे वीर ! विरहं कुर्वाणेन त्वया महान् विरामः कृतः !, कस्याग्रे कथयामि ? | वीर वीर । वीची मे लग्ना ।" पुनः विचारितं "हुं हुं ज्ञातं, वीतरागा अस्नेहा भवन्ति, धिक मम एकपाक्षिकं स्नेहं ! अलं स्नेहेन ! एकोऽस्मि, नास्ति मे कोऽपि द्वितीयः” एवं ध्यातवतः केवलज्ञानं उत्पन्नं । प्रातः इन्द्रायैः महिमोत्सवपूर्व पट्टाभिषेकः कृतः । सर्वश्रीसङ्घस्य प्रमोदो जातः । पुनः तस्यां रात्रौ किं जातं ?, तत्राह- For Private and Personal Use Only गौतमस्य केवल ज्ञानोत्पचिः ॥ १५४ ॥
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy