SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रूतपुम्भिका ? | २, अग्निभूतिः प्राह - "हे भ्रातः ! तव एतदुपरि पराक्रमचालनं किम् ? । कीटकोपरि काकटकी १, पङ्कशोषणे सूर्यस्य कः आदरः १ २, कमलनालछेदने किं वङ्गोत्पाटनं १ । ३, मृगोपरि किं सिंहस्य फालदानं १ ४ । ततो गौतमः प्राह - “भो ! मया सर्वेऽपि वादिनो जिता:, तथापि अयं तिष्ठति, किंवत् ? मुद्वपाके करडूकणवत् १, पीलितेषु तिलेषु अखण्डतिलवत् २, दलितेषु गोधूमेषु अखण्डगोधूमकणवत् ३, सूडितेषु क्षेत्रेषु अखण्डतृणवत् ४, अगस्तिपीते समुद्रे पानीय बिन्दुवत् ५, सबल स्त्रीसूर्पछडिते तण्डुले तुषवत् ६ तथा अजितेऽस्मिन् मया न किमपि जितं, खल्पमपि छिद्रं विनाशाय, यतः खल्पमपि वेध्यं समुद्रे पोतमज्जनाय, दुर्गाशपातोऽपि दुर्गग्रहणाय स्यात् ।" पुनः गौतमः प्राह- "ममाग्रे लाटा वादिनो दूरे गताः कर्णाटास्तु अदृश्यतां गताः । मालवाः मौनमाश्रिताः, मागधा मूका जाताः, गौर्जरा गर्व मुक्तवन्तः, काश्मीरा आगत्य प्रणताः, तिलङ्काः पलायिताः । न कः अपि अस्ति यो मया सह वादं करोति चेत् अयं कर्तुमिच्छति, ततो मण्डूकः कृष्णसर्पस्य चपेटां दातुं उद्यतः, अथवा उन्दिरो भुजङ्गमस्य दंष्ट्रा पाताय उत्थितः, अथवा वृषभः शृङ्गैः ऐरावणं प्रहर्तुं काङ्क्षति, अथवा हस्ती पर्वतपाताय उत्सुको जातः, शशको वा केसरिस्कन्धकेशान् आक्रष्टुं इच्छति । अथवा अत्रागमनेन यदहं कोपितः तत् किं कृतं ?, वायुसंमुखं स्थित्वा दावाग्निः ज्वालितः, सौख्याय कपिकच्छूलता देहेन आलिङ्गिता, शेषनागस्य मस्तके स्थितं मणि लातुं हस्तः प्रसारितः । अपि च - " तावद्गर्जति खद्योतः तावद्गर्जति चन्द्रमाः । उदिते च सहस्रांशौ, न खद्योतो न चन्द्रमाः ॥ १ ॥ For Private and Personal Use Only *-*-*-*-*-*
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy